________________
३/१३
सातवां परिशिष्ट
१७
उरगाभे नृपे तस्मिन् क्रुद्धे बन्धमितं कविम् । .. सरस्वती मोचयामास तं देशं सोऽत्यजत् तदा ॥४॥ विद्वान् जयी वत्सराजो दृष्ट्वा वैदुष्यमुत्तमम् । पञ्च ग्रामान् ददौ तस्मै निजां भगनिकां तथा ॥५॥ पुरन्दरबलो विप्रः शूद्रकः शास्त्रशस्त्रवित् । धनुर्वेद चौरशास्त्रं रूपके द्वे तथा करोत् ।।६।। स विपक्षविजेताभूच्छास्त्रैः शस्त्रैश्चकीर्तये । बुद्धिवीर्येनास्य वरे सौगताश्च प्रसेहिरे ॥७॥ स तस्तारारिसैन्यस्य देहखण्डै रणे महीम्। ' धर्माय राज्यं कृतवान् तपस्विव्रतमाचरन् ॥८॥ शस्त्रजितमयं राज्यं प्रेम्णाऽकृत निजं गहम् । एवं ततस्तस्य तदा साम्राज्यं धर्मशासितम् ॥६॥ तत्कथां कृतवन्तौ यौ कवी रामिलसोमिली। तस्यैव सदसि स्थित्वा तौ मानं बह्वाप्नुताम् ।।१०।। सतां मतः सोऽश्वमेधं कृतवानुरुविक्रमः । वत्सरं स्वं शकान् जित्वा प्रावर्तयत वैक्रमम् ॥११॥ भूयः स मृच्छकटिक नवाझं नाटकं व्यधात् । व्यधात्तस्मिन् स्वचरितं विद्यानयबलोजितम् ॥१२॥ तदार्यकजयं नाम्ना ख्याति विद्वत्स्वविन्दत । एवं ब्रह्मक्षत्रतेजोराशिरासीत स शूद्रकः ॥१३॥ उपवेश्य निजं पुत्रं देवमित्रं निजासने । वार्धके मुनिवृत्त्यैव नयन् कालं वनं ययौ ॥१४॥
२०
२५
१. शूद्रक ने स्वीय मृच्छकटिक के प्रारम्भ में अपना चरित इस प्रकार लिखा है
ऋग्वेदं सामवेदं गणितमथ कलां वैशिकी हस्तिशिक्षाम् . ज्ञात्वा शर्वप्रसादाद् व्यपगत तिमिरे चक्षुषी चोपलभ्य ।
- राजानं वीक्ष्य पुत्रं परमसमुदयेनाश्वमेघेनेष्ट्वा लब्ध्वा चायुः शताब्दं दशदिनसहितं शूद्रकोऽग्नि प्रविष्टः । समरव्यसनी प्रमादशून्यः ककुदं वेदविदां तपोधनं च। परवारणबाहुयुद्धलुब्धः क्षितिपाल किल शुद्रको बभूव ॥