________________
(६८)
अनेकार्थसंग्रहः सटोकः
केदारकः कपाटश्च, पर्पटो भेषजान्तरे । पिण्टविकृतौ परीष्टिः, परीक्षापरिचर्ययोः ॥१५४॥ स्यात्पर्कटी प्लक्षतरौ, पूगादेनूतने फले । पिच्चटस्तु नेत्ररोगे, पिच्चटं त्रपुसीसयोः ॥१५॥ वर्वटी वीहिभिवेश्या, 'भाकूटः शैलमोनयोः ।
'भावाटो भावके साधुनिवेशे कामुकेऽपि च ॥१५६॥ वाटिकायां यथा-ग्रीष्मं निर्गमयन्ति निष्फुट कुटकोडेषु भूमीभृतः ॥१५३।। हस्वः केदारः केदारकः । पर्पटो भेषजान्तरे । पिष्टविकृतो पृणाति पर्पट: "कपट कीकटादयः” (उ० १४४) इति साधुः । द्वयोर्यथा-पर्पट: कर्पटोपमः । परीष्टिः परीक्षापरिचर्ययोः । पर्येषणं परीष्टि: । परीक्षा गवेषणम् । परिचर्या सेवा । द्वयोर्यथा- इटा परीष्टिः शिष्टानां दुष्टकर्म विपाटनी ॥१५४॥ स्यात्पर्कटी प्लक्षतरौ पूगादेर्नूतने फले । पृच्यते पर्कटी "कपटकीकटादयः” (उ० १४४) इति साधुः । गौरादित्वाद् डीः। द्वयोर्यथा-संक्रीडन्ते विकटदशनामर्कटा पर्कटीभिः। पिच्चटस्तु नेत्ररोगे । पिच्चयति पिच्च्यते वा पिवट: । "कपटकीकटादयः" (उ० १४४) इति साधुः । यथा-दृष्टिः पिच्चट पिच्छिला प्रवयसाम् । पिचटं त्रपुसीसयोः । द्वयोर्यथा-गण्डभित्तिविभात्येषा चञ्चत्पिचटकुण्डला ॥१५५॥ वर्वटी ब्रीहिभिवेश्या-वर्वति वर्वटी "कपट" (उ० १४४) इति साधुः । व्रीहिभिदि यथा-मेरो वर्वन्ति वर्वटी। वेश्या गणिका तत्र यथा-वर्वटी चीनकर्पटा। भाकूट: शैलमीनयोः। भान् कूटोऽस्य भाकूटः। शैलविशेषे - १प्र० बाईट: कान्तिपुञ्जके । वारुण्डे मकरे पोते-भाकुट: ।
२ प्र० भार्याट: पटहाजीवे लोभात्स्वस्त्रीसमर्पके । 3 प्र० नटे ।