________________
द्वितीयः काण्डः .
कुण्ठो कर्मण्ये मूर्खे च कुष्ठं भेषजरोगयोः । कोष्ठो निजे कुसूले च कुक्षेरन्तहस्य च ॥१०३॥ गोष्ठं गोस्थानके गोष्ठी संलापे परिषद्यपि । .. ज्येष्ठः स्यादग्रजे श्रेष्ठे मासभेदातिवृद्धयोः ॥१०॥ यथा त्वदरिनृपतिवण्ठाः कूपकण्ठे लुठन्ति । ग्रीवायां यथा--- विश्वामित्रोऽपि सोत्कण्ठं कण्ठे जग्राह मेनकाम् ॥ १०१ ॥ काष्ठं : दारुणि । काशते काष्ठम् “ वनिकणि" इति ठः । यथा-नो हरेत्' तृणकाष्ठानि । काष्ठा तु प्रकर्षे स्थानमात्रके । दिशि दारुहरिद्रायां । कालमानप्रभिद्यपि । प्रकर्षे यथा-काष्ठागतस्नेहरसानुविद्धम् । स्थानमा स्थितिमर्यादा इति यावत् । तत्र यथा-परा हि काष्ठा तपसस्तया पुनः । दिशि यथा-काष्ठास्तुणीते तमः । कालमान प्रभिदि यथा-अष्टादश निमेषाः स्युः काष्ठाः ॥१०२॥ कुण्ठोऽकर्मण्ये " मूर्ख च । कुण्ठति कुण्ठः कुणति वा “पीविशि" (उ० १६३) इति कित् ठः । व च्यलिङ्गः। कर्मणि साधुः कर्मण्यः । न कोड । कर्मण्यः क्रियासु मन्दः। तत्र यथा-कुण्ठः सिद्धपतेः कृपाण इति: रे मा मंसत क्षत्रियाः । मूर्खे यथा-कुण्ठा गोष्ठयां न तिष्ठन्ति: सुप्रतिष्ठामहौजसः। कुष्ठं भेषजरोगयोः। कुष्णाते कुष्ठम् “कुषेो" :: इति ठः । पुंक्लीवः । भेषजे यथा-काकजङ्घा वचा कुष्ठं शुक्र- ' शोणितमिश्रितम् । रोगे यथा-कुरुते मक्षिका वान्ति कुष्ठरोग : च कोलिकः । कोष्ठे निजे कुसूले च कुक्षेरन्तर्गृहस्य च । कुष्यते कोष्ठः “कुषेर्वा" (उ० १६४) इति ठः । निजे वाच्यलिङ्गः । तत्र यथा-राशा कोष्टीकृतो देशः । कुसूलो धान्याधारः तत्र यथा-- कोष्ठागारेषु धान्यं निदधति सुधियः । कुक्षेर्जग्रस्य अन्तः अस्य