________________
द्वितीयः काण्डः
(४३)
-
-
कच्छो द्रु भेदे नौकाङ्गेऽनूपप्राये तटेऽपि च । कच्छास्तु देशे कच्छा स्यात् परिधानापराञ्चले ॥३१॥ चीय वाराह्यां च गुच्छो गुच्छे हारक तापयोः । पिच्छः पुचछे पिवळं वाजे पिच्छाशाल्मलिष्टके॥६२॥ न्यसेत् । व्यूहेऽपि॥ अथ छान्ताः॥ अच्छो भल्लके स्फटिकेऽमलेऽच्छाभिमुखेऽव्ययम् । अत्ति अच्छः “तुदि मदि" (उ० १२४) इति . छक् । अमले वाच्यलिङ्गः । तत्र यथा-विभान्तमच्छस्फटिकाक्ष... मालया । अच्छा इत्याभिमुखे अव्ययम् ॥ ६० ॥ कन्छो द्रुभेदे नौकाङ्गेऽनूपंप्राये तटेऽपि च । कच्छास्तु देशे। कचते कच्छः । "तुदिमदि" इति छन् । केन छाद्यते इति वा पृषोदरादित्वात् । द्रुमेदे नौकाङ्ग्रे च पुंसि । अनूपे तटे च पुंक्लीवः देशे पुंभूग्नि । द्रुभेदानूपप्रायतटेषु यथा-गोलानदीकच्छकुडजवासिना। देशे यथाकच्छानामधिपं च कच्छपमिव व्याकृष्य चिच्छेद यः। कच्छा स्यात् परिधानापराञ्चले । चीर्या' वाराह्यां च । परिधानापराञ्चले यथा-प्रलम्बकच्छाः किल दाक्षिणात्याः ॥ ६१ ॥ चीरी पक्षिमेदः । वाराही वराहक्रान्ता ओषधिः । गुच्छो गुञ्छे हारकलापयोः । गूयते गुच्छः “तुदिमदि" इति छक् । गुञ्छ: स्तबकः तत्र यथा-तापिच्छगुच्छच्छविः। द्वात्रिंशल्लतो हारोगुच्छः। कलापे यथा-ननर्त विस्तारितपिच्छगुच्छः। पिच्छः पुच्छे । पीयते पिच्छः “पीपूडो ह्रस्वश्च" (उ० १२५) इति छक् । यथास छिन्नवान् पिच्छमनिच्छतोऽपि । पिच्छं वाजे । वाजः पक्षः तत्र यथा-अवाप बाल्योचित-नीलकण्ठ-पिच्छावचुलाकलनामिवोरः ।
.
.
.
.