________________
द्वितीयः काण्डः
चिन्तायां गथा-पूर्व राजगृहे न केन जगृहे सत्तचर्चाग्रहः । स्थासके यथा-अलिकं चन्दनचर्चयाचितम् ॥ ५६॥ चञ्चः पश्चाङ्गुले त्रोटयाम् । चञ्चति चञ्चः “भृमृतृत्सरि." (उ० ७१६) इति उः । पञ्चाङ्गुल एरन्डस्तत्र पुंसि । त्रोट्यां स्त्रियाम् । तत्र यथा'येनास्मिन्न पतन्ति चञ्चपुटके द्वित्राः पयोबिन्दवः। नीचः पामरखर्वयोः। न्यचति नीचः “न्युझ्यामश्चेः" (उ० १००३) इति क्रप्रत्यये साधुः । वालिङ्गः । पामरे यथा-तृणमिव गणयति जगदपि नीचो यत् किंचिदपि पदं प्राप्य । खर्वे यथा-त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निषेद्धं क्षमः । मोचा शाल्मलिकदल्योः। मुञ्चति मोचा " लिहाद्यन्” (५।१।५०) कदल्यां यथा- मुमोच मोचादलतालवृन्तम् । मोचः शियौ । शिग्रुः शोभाञ्जनः । रुचिर्युतौ । स्पृहाऽभिष्वङ्गशोभासु । रोचते रोचनं वा रुचिः " नाम्युपान्त्य" इति कित् इः खियाम् । धुतौ यथा-शुक्ति पुटेषु निपतिताः शशिरुचयो यान्ति मौक्तिकमणित्वम् ॥ ५७ ॥ स्पृहायां यथा-अरुचिर्भर्वात समृद्धौ काम्यन्ते काममन्यदा विषयाः। अभिष्वंगे संगे यथा-शमो हि संसाररुचिं छिनत्ति । शोभायां यथा-स्वाङ्गानि धूमरुचिमागुरवीं दधानै पायतीव पटलैर्नवनीरदानाम् । वचः शुके । वक्ति वचः शूकः कीरः । वचोषधौ शारिकायां । वक्ति अनया वचा "भिदादित्वात् " अङ्प्रत्ययः । यथा-अश्वगन्धा वचा कुष्ठं वे हरिद्रे च सैन्धवम्।शारिका पक्षिणी। वीच्याल्यूम्योरवकाशे सुखाल्पयोः। “वयतेगोडित्" इति डिति ईचौ वीचिः। ड्यां वीची। आलिः पंक्तिस्तत्र यथा-नाराचवीची नमुचिर्मुमोच । ऊौं यथा-उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रविलासान् ॥ ५८॥ शचीन्द्राणीशतावोंः । शचि व्यकायां वाचि