________________
प्रथमः काण्डः
दृग् दृष्टदर्शनध्यदिण विट प्रवेशे नृवैश्ययोः । तृट तृष्णावचर्षवञ्च भवेल्लिप्सापिपासयोः ॥१५॥ विट् शोभायां जिगीषायां व्यवसाये रुचौ गिरि । भाः प्रभावे मयूखे च मास्तु मासे निशाकरे ॥१६॥ द्रष्टरि वाच्यलिङ्गः । यथा- भवन्ति सूक्ष्मार्थदृशः कवीन्द्राः ।" दर्शने धियाम् अक्षिण च स्त्रोलिङ्गः । दर्शनाक्ष्णोर्यथा-'कामं पल्लवयन्ति लोचनदृशां यूनां कुरङ्गीदृशः । अत्र एको दृक्शब्दो दर्शने । द्वितीयस्तु अक्षिण । मतौ यथा-मिथ्यादृशां युगान्तार्कः सुदृशाममृताञ्जनम् । विट् प्रवेशे नृवैश्ययोः वेंशनं विशति वा विट् । क्किए । प्रवेशे स्त्रियाम् । नृवैश्ययोः पुंसि । नरि यथा'आसीद्विशांपतिरमुद्रचतुःसमुद्रमुद्राङ्कितक्षितिभरक्षमबाहुदण्डः ।" वैश्ये यथा- ब्राह्मणक्षत्रियविटशूद्राः। प्रजाविष्ठयोरपि । प्रजायां यथा- त्रीणि श्राद्धे पवित्राणि दौहित्रो विट्पतिस्तिलाः । अत्र हि विट्पतिः विशो दुहितुः पतिर्जामाता उच्यते । विष्ठायां यथा'मयूरपारापतयोः कुकुंटस्य तथा विशाम् ॥' अथ षान्तौ ॥तर्षणं तृट् क्विय । “ मृगयेच्छा" (५/३/१०१) इति निपातनात् तृष्णा घत्रि तर्षः । एते त्रयोऽपि लिप्सायां पिपासायां च । तृतृष्णा शब्दौ स्त्रियाम् । तर्षः पुसि लाघवार्थ द्विस्वरयोरप्येकखरकाण्डे पाठः। एवमन्यत्राप्यूह्यम् । लिप्सायां यथा-अतियातिनः सतृष एव चक्षुषो हरिरित्यखिद्यते नितम्बिनीजनः । न विवेद, यः सततमेनमीक्षते न वितृष्णतां व्रजति खल्वसावपि । तर्षप्रकर्षेण धनं चकर्ष । पिपासायां यथा-तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु १ प्रत्य० दृगदृष्टौ दर्शनेऽध्यक्षे