________________
(१०) अनेकार्थसङ्ग्रह-कोषः सटीकः वः पश्चिमदिगीशे स्यादौपम्ये पुनरव्ययम् ॥ योः स्वर्गनभसोः स्वो ज्ञात्यात्मनोः स्वं निजे धने ।१४। मतौ गिरि। शोभायां यथा- 'किं कथ्यते श्रीरुभयस्य तस्य ।' त्रिवर्गसंपत्तौ समृद्धौ यथा-'श्रियः कुरूणामधिपस्य पालनीम् ।' प्रशंसायामपि मंखः यथा-हठद्रुतरमठश्रीः श्रीमहीपालदेवः। सूः सुवे. निर्झरेऽपि च। स्रवति नः स्त्रियां स्रुवः स्नुकूभेदः ॥३३॥ अथ वान्ताः ॥ वः पश्चिमदिगीशे स्यादौपम्ये पुनरव्ययम् । वाति वः। पश्चिमदिगीशो वरुणः । अव्ययपक्षे शब्दपरो निर्देशः । तेन “ अव्ययस्य " (३/२/७) इति सेलुप् न भवति । औपम्यम् उपमा तत्र यथा-कादम्बखण्डितदलानि व पङ्कजानि।" द्योः स्वर्गनभसोः। दीव्यन्ति अस्यामिति द्यौः “दिवेडिव्" स्त्रियां स्वर्गे यथा-दिवं यदि प्रार्थयसे वृथा श्रमः । नभसि यथारजश्छलात् सैन्यविमईपीडाभीतेव भूमिर्दिवमारुरोह । स्वो नात्यात्मनोः अस्यति स्वः ( 'प्रह्वा हृति' साधुः ) पुंसि ज्ञातौ यथा-ना निवेद्य मुनिस्वानां कन्यादानं प्रशस्यते । आत्मनि यथा'हृदिस्वमवलोकयन् । स्वं निजे धने। निजे त्रिषु यथा-स्व एव वेषः परिणेतुरिष्टः । 'स्वामेव मूर्ति प्रविवेश देवः। 'स्वान्येव तेजांसि तपोमयानि ।' धने पुंक्लीबः प्रभुताः स्वा न दीयन्ते ।' सर्वस्वमपि चेद्दत्तमणके ब्राह्मणब्रुवे ।' काकिन्यपि श्रोत्रियाय न समं स्यात् फलेन तत् । गौडस्तु स्वो शातावात्मनि क्लीवे इत्याह । स्वरूपेऽपि ॥ १४ ॥ अथ शान्तौ ॥ दृग् द्रष्टदर्शनध्यक्षिण । पश्यति दर्शनम् । दृश्यतेऽनया वा दृक् । विप चतुर्वर्थेषु ।
*प्र० स्याद्वीपम्ये