________________
द्वितीयः काण्डः
(२७९)
करे चामरदण्डे च, गृहदारूदरांशयोः ।। त्वक्सकोचे गन्धके च, बालोऽशेऽश्वेभपुच्छयोः ॥४९०॥
च तम् । हलायुधे यथा-बलोऽवलोकयामास मातङ्गमिव केशरी। बला त्वौषधिभेदे स्यात् । बला तैलेनाङ्गं मलिनयति बालोऽयमबल: । बलिदैत्योपहारयोः । करे चामरदण्डे च गृहदारूदरांशयोः। त्वक् सङ्कोचे गन्धके च बलति बलते वा बलि: । पदि पाठि (उ० ६०७) इति इः। दैत्ये चामरदण्डे करे गन्धके च पुंसि । उपहारे त्वक्संकोचे उदरावयवे च स्त्रीपुंसः गृहदारुणि स्त्रियाम् । अत्र ओष्ठ्यादिकृतो दन्तोष्ठ्यादि कृतो वा विशेषो नाश्रियते बवयोरैक्यात् । दैत्ये यथा-वदसि बलिवधूभिः स्मेरनेत्रोत्पलाभिः। उपहारे पूजोपकरणे यथा-कुर्वन् सन्ध्याबलिपटहतां शूलिनः श्लाघनीयाम् ।।४८९।। करे राजग्राह्ये यथा-स ताभ्यो बलिमग्रहीत् । चामरदण्डे यथा-रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः । गृहदारुणि यथा-यस्यामसेवन्त नमद्वलोकाः समं वधूभिर्वलभीयुवानः अत्र हि न भात्यावल्यो गृहदारुविशेषा यस्यांन्ता नमवलीकाः। उदरांशे यथा-मध्ये न सा वेदिविलग्नमध्यावलित्रयं चारु बभार बाला। त्वक्संकोचे यथा-वलिभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः । गन्धकः कुष्टारिः । बालोऽज्ञेऽश्वेभपुच्छयोः। शिशौ ह्रीवेरकचयोः। वलति बाल: ज्यलादित्वाण्णः। वल्यते वा घज। अज्ञे शिशौ च बाच्यलिङ्गः। ह्रीवेरकचयोः पुंक्लीबः। अज्ञे यथा-द्राघिम्लामुषिताः कियच्चिरमहो तालेन बाला वयम् । शिशौ यथा-बालं विहाय जलसंस्थितमिन्दुबिम्बमन्यः क इच्छति जनः सहसा ग्रहीतुम् । अश्वपुच्छे इभपुच्छे च यथा-गजाश्वं राजते