________________
द्वितीयः काण्डः
(२७३)
करास्फोटे करतले, हरिताले त्सरावपि । तुला माने पलशते सादृश्ये राशिभाण्डयोः ॥४८०॥ गृहाणां दारुबन्धाय पीठयां तूलं तु खे पिचौ ।। ब्रह्मदारुण्यथ दलं, शस्त्रीच्छदेऽर्द्धपर्णयोः ॥४८१॥
वरुणभार्या । ताल: कालक्रियामाने हस्तमानद्रुभेदयोः । करास्फोटे करतले हरिताले त्सरावपि । तालयति तालः। सप्तस्वर्थेषु । कालस्य क्रियया आवापनिष्कामादिक (का) या मानं परिच्छेदकं चच्चत्पुटादि तत्र यथा-गतमनुगतवीणैरेकतां वेणुनादैः कलमविकलतालं गायनैर्बोधहेतोः। हस्तस्य मानम् अङ्गष्ठमध्यमाङ्गलिकृतः परिच्छेदः। तत्र यथा-पञ्चतालमितां रज्जु पञ्चाङ्गी तत्र कल्पयेत् । द्रुभेदे वृक्षभेदे यथा-यस्तैकबाणाहतिश्रेणीभूतविशालतालविवरोद्गीर्णैः स्वरैः सप्तभिः । करास्फोटे करतले च यथा-तालः सिजद्वलयसुभगैः नत्तितः कान्तया मे। हरिताले धातुभेदे यथा-तानं तालेन लेपयेत् । त्सरुः खड्गादिमुष्टिः । गृहादिरक्षणाय लोहादिमययन्त्रेऽपि । तुला माने पलशते सादृश्ये राशिभाण्डयोः । गृहाणां दारुबन्धाय पीठ्याम् । तोल्यतेऽनया तोलनं वा तुला । भिदादित्वात् साधुः। माने उन्मानविशेषे यथा-बार्दुष्यं भ्रूणहत्यां च तुलया सह तोलयेत् । पलशते यथा-कालागुरुतुलाधूपधूमध्यामलजालके । सादृश्ये यथाचिरोञ्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा । राशौ यथा-जयति तुलामधिरूढो भास्वानपि जलदपटलानि । भाण्डे जलोदञ्चनोपकरणे यथा-प्राप्यते स्वादुपोतस्थैस्तुलया तोलितं जलम् ॥४८०॥ गृहाणां दारुबन्धाय दारुस्थापनाय पीठया पट्टे यथा-बृहत्तुलैरप्यतुलवितानमालावनद्धैरपि चावि