SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ द्वितीय: काण्डः (२७१) वल्कले पुष्पभेदे च जलं गोकललै जडे ॥ हीवेरेऽम्बुनि जालं तु, गवाक्षे क्षारके गणे ॥४७६॥ दम्भानाययोश्च जालो नोपे जाली पटोलिका ॥ झला पुत्र्यामातपोर्मा, झिल्ली तद्वर्तनांशके ॥४७७।। छल्ली सन्तानवीरुधोः। वल्कले पुष्पभेदे च । छादयति छल्ली । भिल्लाच्छभल्ल (उ० ४६४) इति निपात्यते । सन्तानं सन्ततिः। वीरुतलता गुल्मभेदः ।।४७५॥ वल्कलं त्वक् । पुष्पभेदः । कुसुमान्तरम् । चतुर्वर्थेषु । वल्कले यथा-छल्लीछन्ना भान्ति पल्लीषु भिल्ल्यः। जलं गोकलले जडे । हीवेरेऽम्बुनि । जलति जलम् । चतुर्वर्थेषु । जडे वाच्यलिङ्गः। गोः कललं शुक्रशोणितयोरीषद्यूनः (प्र. द्वयुतः,रीषद्यकृत,)परिणामो गर्भप्रथमावस्थेति यावत् । जडे मूर्खे । अम्बुनि तोये च यथा-दानं ददत्यपि जलैः सहसाधिरूढे को विद्यमानगतिरासितुमुत्सहेत। हीवेरं बालकम् । जालं तु गवाक्षे क्षारके गणे। दम्भानाययोश्च । जलति जालम् । ज्वलादित्वाद् णः। गवाक्षगणानायेषु स्त्रीक्लीबः। गवाक्षे यथा-पादानिन्दोरमृतशिशिराज जालमार्गप्रविष्टान् । क्षारकं कुड्मलं तत्समूहो वा तत्र यथा-विश्रान्तः सन् व्रज नवनदीतीरजातानि सिञ्चन्नुद्यानानां नवजलकणैर्वृथिकाजालकानि । गणे समूहे यथा-पश्यन्ति शान्तमलसान्द्रतरांशुजालम् ॥४७६।। दम्भे छद्मनि । आनाये मत्स्यबन्धने च यथा जालावलम्बेन हि धीवरोऽपि प्राणातिवाहं कुरुते जलेभ्यः। धूर्तकृत्येऽपि मंखः । यथा-शङ्का स्पृष्टा इव जलमुचस्त्वादृशा यत्र जालै बूंमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति । जालो नीपे । नीपः कदम्बः । जाली पटोलिका । पटोलिका कोशातकी।
SR No.002279
Book TitleAnekarth Sangraha Satik Part 01
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1972
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy