________________
द्वितीयः काण्डः
AAAAAAAN
www.rrrrrrrrrrrr
भिक्षाप्रकारे सङ्घाते प्रान्तेऽप्यद्रिस्तु पर्वते । सूर्ये शाखिनि चाभ्रं तु त्रिदिवे गगनेऽम्बुदे ॥३८२॥ अस्रः शिरसिजे कोणे स्यादत्रं शोणितेऽश्रु णि ।। अस्त्रं चापे प्रहरणेऽप्यह्निः पादद्रुमूलयोः ॥३८३॥
यथा-त्वमग्रं हि समग्रस्य राज्यस्यास्य महीपते । परिमाणे पलस्य चेति पललक्षणे परिमाणे इत्यर्थः ।।३८१॥ भिक्षाप्रकारो भिक्षाभेदः। यत् स्मृतिः । ग्रासप्रमाणं भिक्षा स्यादग्रं ग्रासचतुष्टयम् । अग्रं चतुर्गुणं प्राहुर्हितकारं द्विजोत्तमाः । सङ्काते यथाग्रन्थाग्रमस्य विज्ञेयं सहस्राणि दशैव तु । प्रान्ते यथा-कराग्रलग्नाऽभिनवाथ बाला। अद्रिस्तु पर्वते । सूर्ये शाखिनि च । अति अद्यते वा अद्रिः । तङ्कि वति (उ० ६९२) इति रिः। पुंसि । पर्वते यथा-तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी। सूर्ये यथा - अद्रिः सान्द्रकरौघनाशिततमः स्तोमोऽयमभ्युद्यतः । शाखिनि यथा-उत्खायाद्रीन्द्रुतमभिमुखं पर्वतांश्च क्षिपन्तः । अभ्रन्तु त्रिदिवे गगनेऽम्बुदे । अभ्रति अभ्रम आप्नोति वा खुर क्षुर (उ० ३९६) इति साधुः । त्रिदिवे गगने च यथाअभ्रातिक निपतन्ति केऽपि गुणिनः स्वामिप्रसादोचिताः । अम्बुदे यथा-अभ्रस्तम्ब विडम्बयौवनमिति प्रेम्णावगूढाः स्त्रियः ।।३८२।। अस्रः शिरसिजे कोणे । अस्यते अस्रः। भीवृद्धि (उ० ३८७) इति रः। शिरसिजः के शस्तत्र यथा-अविकीणैः परितोस्रमित्रैः। कोणे यथा-अस्रं शृङ्गाटकं जगुः। स्यादत्रं शोणितेऽश्रुणि । शोणिते यथा-पौनःपुन्यादस्रगन्धेन मत्तो मृद्नन् कोपाल्लोकमायोधनोाम् । अश्रुणि यथा-अस्रेस्तावन्मृदुरुपचितैर्दृष्टिरालुप्यते मे। अस्त्रं चापे प्रहरणेऽपि । अस्यतेऽनेन अस्त्रम् । त्रट् । द्वयोर्यथा