________________
द्वितीयः काण्डः
(२११)
AvornAnnar
मध्यं न्याय्येऽवलग्नेऽन्यर्मयो दैत्योष्ट्र वेसराः । मयुमंगाश्वमुखयोर्मन्युदैत्ये ऋतौ क्रुधि ॥३६५।।
भव्यगेय ५।१७। इति साधुः । फलास्थ्नोः क्लीवे । अन्यत्र वाच्यलिङ्गः । फले यथा - नव्यानि भन्यानि ददाति भव्यम् (हव्यम्)। योग्ये यथा-समाधिमत्यामुदपादि भव्या। शुभे कल्याणे यथा-भव्यं नव्यमिदं कुतः परिणतं (न सत्यमिदं कुतः परिणति) यदृश्यते त्वादृशः। अस्थनि यथा-भव्यं क्रव्यमिवेह खादतितरां क्रव्यादयं निर्दयम् । सत्यं तथ्यम् । भावि भविष्यन् । तयोर्यथाअर्थोऽयमर्थोत्तरभव्य एव । भव्यस्तु कर्मरङ्गतरौ सति । कर्मरङ्गतरु: वृक्षभेदः। सति सत्पुरुषे यथा-श्राव्यं वक्ति सदा भव्यः । सति विद्यमाने इति मंखः । भव्योमाकरिपिप्पल्योः। भवे साधुभव्या । उमायां यथा-समाधिमत्यामुदपादि भव्या । अयं योग्यार्थोऽपि मंखेन व्याख्यातः । भाग्यं कर्म शुभाशुभम् । भज्यते भाग्यम् । बाहुलकात् घ्यण् । भाग एव वा मादिभ्यो यः । ७।२।१५९। शुभमशुभं च पुराकृतं कर्म । तयोर्यथासुखं वा दुःखं वा भवति हि नृगां । भाग्यविहितम् ॥३६४।। मध्य न्याय्यऽवलग्नेऽन्तः। मवति मध्यम्। शिकास्या (उ० ३६४) इति ये साधुः। न्याय्ये वाच्यलिङ्गः। अबलग्ने पुंक्लोबः । न्याय्ये यथा- मध्ये वर्त्मनि वर्तते न हि खलः सौजन्यवन्ध्यः कुधीः। अवलग्ने कायमध्यभागे, यथा-ननाम मध्योऽतिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानाम् । अन्तर्य था-मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः । अनधिकन्यूनसंख्याभेदयोरपि। अनधिकन्यूने यथा-उदभूत्तारगम्भीरो मध्याह्न पटहध्वनिः । संख्याभेदे यथा-मध्य पराय माहुर्य थोत्तरं दशगुणं तज्ज्ञाः।