________________
द्वितोय: काण्ड :
छायापङ्क्तौ प्रतिमायामर्कयोषित्यनातपे ।
उत्कोचे पालने कान्तौ शोभायां च तनस्यपि ।। ३५१ ।।
,
(२०३)
1
वा । यथा-चित्यसंचयचातुर्य्यधुर्य्यायाजिकपुङ्गवाः ॥ ३४९ ॥ चैत्यं जिनौकस्तबिम्बम् । चीयते चैत्यम् । शिक्यास्या ( उ०३६४) इति साधुः । जिनोऽर्हन् बुद्धो वा तस्य ओक आयतनं तद् बिम्बं जिनबिम्बम् द्वयोर्यथा - चैत्यं वन्देत् स्वर्गकामः । चैत्यो जिनसभातरुः । उद्देशवृक्ष: । जिनस्य तीर्थकृतः सभायां समवसरणकाले देवताजनितस्तरुर शोकाख्यः । तत्र यथावप्रत्रयं चारुचतुर्मुखाङ्गता चैत्यद्रुमोऽधोवदनाश्च कण्टकाः । उद्देशवृक्षे प्रसिद्धिहेतौ पादपे यथा - नोडारम्भैर्नृ हवलिभुजामाकुलग्रामचैत्याः । चोद्यं तु प्रेर्ये प्रश्नेऽद्भुतेऽपि च । चोद्यते चोद्यम् । प्रेयें प्रेरणीये वाच्यलिङ्गः। तत्र यथा - अधीयानोपलब्धार्थानचोद्यः स्यात्कथंचन । प्रश्नेऽद्भुते च यथा - निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्मजया । दिवसात्यायात्तदपि मुक्तमसौ चपलाजनं प्रति न चोद्यमदः ।। ३५० ।। छायापङ्क्तौ प्रतिमायामर्कयोषित्यनात । उत्कोचे पालने कान्तौ शोभायां च तमस्यपि । छ्यति छाया । स्थाछामा ( उ० ३५७ ) इति य: । पङ्क्तौ श्रेणौ यथा - गोपीकलमकेदारे शुकच्छायां नियच्छति । प्रतिमायां प्रतिबिम्बे यथा-ये छायास्वर्जलधेर्जलेषु । अर्को योषिति यथाछायायां दिननाथम्य जातौ यमशनैश्वरौ । अनातपे आतपाभावे यथा-आमेखलं संचरतां घनानां छायामिषे सानुगतां निषेव्य । उत्कोचो लञ्च । तत्र यथा - छायां नेच्छति नीतिज्ञः । पालने रक्षणे यथा - सम्वृत्तो यं तव यदि भुजच्छायया सम्प्रतीन्द्रो निर्विघ्नश्रीः । कान्तौ प्रभायां यथा - रत्नच्छाया व्यतिकर इव