________________
द्वितीयः काण्ड:
(१७५)
द्विपाङ्गे राक्षसे राशौ कुम्भं त्रिवृतिगुग्गुलौ । कुंभ्युखायां पाटलायां, वारिपां च कट्वफले ॥३०२॥
लोहमण्डलकः। पवौ यथा-अनाकलितमाहन्ति शम्बत्वत्तः परोऽत्र कः लोहकाञ्च्यां यथा-शम्बाकृत इव क्षेत्रे बीजमाशु प्ररोहति । अत्र शंबाकृत इति दारुकाण्डाग्रस्थितलोहमण्डलचूर्णीकृते इत्यर्थः । श्रेयोऽन्वितेऽपि । तदा तु शमस्यास्तीति शंबः । कंशंभ्याम् ७-२-१८ । इति वः। स्तंब आलानगुल्मयोः। व्रीह्यादीनां प्रकाण्डे च । स्तभ्नाति स्तंबः। तुंबस्तंबादयः । (उ० ३२०) इति साधुः । आलाने यथा-स्तंबेरमः परिणिनंसुरसावुपैति । अत्र स्तंबे आलाने रमते इति स्तंबेरमः । गुल्मे यथा - कदंबलंबी रोलंबी निम्बस्तंबं न चुंबति । ब्रीह्यादिप्रकाण्डे यथा-अमी पृथुस्तंबभृतः पिशङ्गतां गता विपाके न फलस्य शालयः । अथ भान्ताः । कुंभो वेश्यापतौ घटे । द्विपाङ्गे राक्षसे राशौ। कायति कुंभः । काकुसिभ्यां कुंभः। (उ० ३३७) घटे स्त्रीपुंसः । वेश्यापतौ यथाकुंभस्तम्भित शंभलीभुजलत: पानोत्सवे नृत्यति । घटे यथाशक्ता हि कूपमपि शोषयितुं न कुंभाः। कुंभोद्भवेन पुनरंबुधयोऽपि पीताः । द्विपाङ्गे गजशिरः । पिण्डे यथा-वक्षोजाविभकुंभविभ्रमहरौ। राक्षसे यथा - कुंभकर्णसुतौ कुंभनिकुंभौ दंभपण्डितौ। राशौ यथा-समस्तु वृषकुंभयोः । कुंभ त्रिवृतिगुग्गुलौ । त्रिवृतनिश्रोत्रौषधिः । गुग्गुलुर्महिषाक्ष: । क्लीबे। कुंभ्युखायां पाटलायां वारिपऱ्यां च कट्वफले । उखा स्थाली । पाटला पुष्पतरुः । वारिपर्णी फंगानाम शाकः । कट्वफल: