________________
(१७४)
अनेकार्थसंग्रहः सटोकः
डिम्ब एरण्डभययोविप्लवे प्लीह्निपुप्फुसे । बिम्बं तु प्रतिबिम्बे स्यान्मण्डले बिम्बिकाफले ॥३००। शम्बः पवौ लोहकाञ्च्यां, स्तम्ब आलानगुल्मयोः ।
ब्रीह्यादीनां प्रकाण्डे च, कुम्भो वेश्यापतौ घटे ॥३०१।। द्वीपवृक्षविशेषयोः । जायतेऽस्यां जम्बूः । कमिजनिभ्यां बूः (उ० ८४७) स्त्रियाम् । मेरुतरङ्गिण्यां यथा-जाम्बूनदं जगति विश्रुतिमेति मृत्स्ना नृत्स्नाऽपि सा तव रुचा विजितश्रियस्याः । तज्जाम्वद्रवभवास्य सुधाविधाम्बुर्जम्बूः सरिद्वहति सीमनि कम्बुकण्ठि । द्वीपविशेषे यथा-यन्मौलिरत्नमुदितासि स एष जम्बूद्वीपस्त्वदर्थं मिलितैर्युवभिर्विभाति । वृक्षविशेषे यथा-जम्बू. कुञ्जप्रतिहतरयं तोयमादाय गच्छेः ॥२९९।। डिम्ब एरण्डभययोविप्लवे प्लीह्निपुप्फुसे। डेयते डिम्बः । डीनीबन्धि (उ० ३२५) इति डिम्बः । पञ्चस्वर्थेषु पुंक्लीबः । भयं भीतिः विप्लवे डमरः । अनयोर्यथा-डिम्बानि बिवं हरतां हरेर्वः । प्लीहा पुप्फुसश्व शरीरावयवविशेषौ । तयोर्यथा-स्वा, कारं कालखण्डोपदेशः क्रोष्टाडिम्ब व्यष्वणद् व्यस्वनच्च । बिम्बं तु प्रतिबिम्बे स्यान्मण्डले बिम्बिकाफले। बध्नाति बिम्बम् । डीनीबन्धि इति डिंबः। प्रतिबिम्बे मण्डले च पुंक्लीबः । प्रतिबिम्बे यथा-बालं विहाय जलसंस्थितमिन्दुबिम्बमन्यः क इच्छति जनः सहसाग्रहीतुम् । मण्डले यथा-निमग्नं रविबिम्बताम्रघटिकायन्त्रेण वारां निधौ। बिम्बिकाफले यथा-तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ॥३००॥ शम्बः पवौ लोहकाञ्च्याम् । शाम्यति शम्बः । शम्यमेणिद्वा (उ० ३१८) इति षः। पविरशनिः । लोहकाञ्चीसुसलाद्यग्रस्थो