________________
(१७२)
अनेकार्थसंग्रहः सटीकः
अशने च सुधायां च, वपा विवरमेदसोः । शष्पं तु प्रतिमाहीनतायां बालतृणेऽपि च ॥२९५।। शापः शपथ आक्रोशे शिष्यं स्रुवे क्रियोचिते । स्वापो निद्रायां रुग्भेदे, शयनाज्ञानमात्रयोः ॥२९६।। गुम्फो दोभूषणे दृब्धौ, रेफोऽवद्यरवर्णयोः ॥
शर्फ खुरे गवादीनां, मूले विटपिनामपि ॥२९७॥ रचिते यदि दाढर्य स्यात्तु कालपरिणामवशेन । प्रत्युप्तेव च वज्रलेपघटिते वान्तर्निरवातेव चेत्यादौ मृत्क्रियत्वोपचारात् न हि तस्या हृदा पच्छाया मृत्क्रियत्वम् सम्भवत्यत एवोपचारः ॥२९४॥ वपा विवरमेदसोः। उप्यते वपा भिदादित्वात्साधुः । द्वयोर्यथा-एते वपा निवसनादिव जातगर्वा धूर्ता वपां समरभूमिगता वदन्ति । शम्पं तु प्रतिभाहीनतायां बालतृणेऽपि च । शीयते शिष्यम् । शदि वाधि (उ० २९९) इति पो दस्य षत्वं च । पुंक्लीबः । बालतृणे यथा-शष्पैरर्धावलीडै: श्रमविततमुखभ्रंशिभिः । कीर्णवर्मा ॥२९५।। शाप: शपथ आक्रोशे । शपनं शापः । शपथे यथा-त्वत्पादस्पर्शनं शापो मम देवात्र वस्तुनि । आक्रोशे वाक्यारुष्ये यथा-शापेनास्तंगमितमहिमा वर्षभोग्येन भर्तुः । शिष्पं स्तुवे क्रियोचिते। शिनष्टि शिष्पम् । पम्पाशिल्येति साधुः। वो होमोपकरणम् । क्रियोचितः क्रियायोग्यः । तत्र वाच्यलिङ्गः। स्वापो निद्रायां रुग्भेदे शयनाज्ञानमात्रयोः । स्वपनम् स्वपित्यनेन वा स्वापः । शयनमत्र स्रस्तरादौ संवेशनमात्रम् । निद्राशयनयोर्यथा-रोगमार्गश्रमौ मुक्त्वा स्वापश्च सकलां निशाम् । रुग्भेदः प्रसूतिभेदः । अज्ञानमात्रे यथा-स्वापेन पापानि समाचरन्ति ॥२९६॥ अथ फान्ताः। गुम्फो दोभूषणे दृब्धौ ।