SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ (१७०) अनेकार्थसंग्रहः सटोकः wwwwwwwwwwwwwwwwwwwwwww त्रपा लज्जाकुलटयोनपु सीसकरङ्गयोः । तापः संतापे कृच्छे च तापी तु सरिदन्तरे ॥२९१॥ दर्पो मृगमदे गर्वे, पुष्पं विकास आर्तवे । धनदस्य विमाने च, कुसुमे नेत्ररुज्यपि ॥२९२॥ भ्रष्टप्रभं दुरितराशिरिव प्रचक्रे । शय्यायां यथा-आस्तीर्ण तल्परचिता वसवः क्षणेन वेश्याजनः कृतनवप्रतिकर्मकाम्यः । वेश्मन उपरितनमण्डपिकायामपि यथा-विशीर्णतल्पो गृहसन्निवेशः ॥२९०।। त्रपा लज्जाकुलटयोः । त्रपणं त्रपयति वा त्रपा लज्जायां यथा-हतेऽपि भारे बृहतस्त्रपाभरादुवाह दुःखेन भृशानतं शिरः । कुलटायां यथा-न तृप्यति त्रपा पुंसाम् । त्रपु सीसकरङ्गयोः । त्रपते वपु भ्रमृतृत्सरि (उ० ७६१) इति उः। क्लीबे । रङ्गं वङ्गम्। द्वयोर्यथा-कनकभूषणसंग्रहणोचितो यदि मणिस्त्रपुणि प्रतिबध्यते । तापः सन्तापे कृच्छे च । तपनं तापयति वा तापः । सन्तापे यथा-तस्यास्तापमहं नृशंसकथयाम्येणीदशस्ते कथम् । कुच्छे यथा-भवतापाभितप्तानां त्वमेवशरणं प्रभो। तापी तु सरिदन्तरे गौरादित्वाद् डीः। सरिदन्तरे नदीभेदे यथातापीनेयं नियतमथवा तानि तीराणि नास्याः ।।२९१।। दर्पो मृगमदे गर्थे । दृप्यति अनेन दर्पणं वा दर्पः । मृगमदे यथादर्पस्य गन्धेन ससर्प सर्पः । गर्वे यथा-विनोदमिच्छन्नथ दर्पजन्मनः। पुष्पं विकास आर्तवे। धनदस्य विमाने च कुसुमे नेत्ररुज्यपि । पुष्पणं पुष्पति वा पुष्पम् । विश्वस्य दोपाविव पुष्पवन्तौं । अत्र हि पुष्पं विकासो विद्यते ययोस्तौ चन्द्रार्की । आर्तवे रजसि कुसुमे च यथा-लतां पुष्पवती स्पृष्ट्वा कृतस्नाना जलाशये। धनदस्य विमाने यथा-धनदसौधमिव पुष्पालंकृतम् । नेत्ररुजि
SR No.002279
Book TitleAnekarth Sangraha Satik Part 01
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1972
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy