________________
(१६८)
अनेकार्थसंग्रहः सटीक :
हनुः कपोलावयवे, मरणामययोरपि ।। हरिद्रायामायुधे च, हली कृषकसीरिणोः ॥ २८७ ॥ कल्पो विकल्पे कल्पद्रौ संवर्ते ब्रह्मवासरे ॥ शास्त्रे न्याये विधौ कूपो गर्तेऽन्धौ गुणवृक्षके ॥ २८८ ॥
1
रवौ यथा - सूनुना धूनि ध्वान्ते ॥ २८६ ॥ हनुः कपोलावयवे मरणामयोरपि । हरिद्रायामायुधे च । हन्यते हनुः । कृहनेस्तुक्नुको ( उ० ७९१ ) इतिनुक् । बाहुलकान्नलोपः । कपोलावयवे स्त्रीपुंसः । हरिद्रायां स्त्रियाम् । अन्यत्र पुंसि । कपोलावयवे यथा - वसन्तकालो हनुमानिवागतः । शेषेषु अन्वेष्यम् । हली कृषकसीरिणोः । हलमस्त्यस्य हली । कृषके कुटुम्बिनि यथा - कवलैर्गोरसान्नानां हलिनो बलिनः खलु । सीरिणि बलभद्रे यथा - हलिनो नीलवाससः ।। २८७।। अथ पान्ताः । कल्पो विकल्पे कल्पद्रौ सम्वर्ते ब्रह्मवासरे । शास्त्रे न्याये विधौ । कल्पनं कल्प्यतेऽसावनेन वा कल्पः । विकल्पे यथा-अनल्प कल्पाकुलितं मनो मे । कल्पद्रौ यथाधुन्वन्कल्पद्रुम किसलयान्यंशुकानीव वातैः । संवर्ते प्रलये यथाकल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनम् । ब्रह्मवासरे यथा - नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । शास्त्रे शास्त्रविशेषे वेदाङ्गे यथा - शिक्षा कल्पो व्याकरणं छन्दोज्योतिर्निरुक्तयः । न्याये यथा - स एष प्रथमः कल्पः । विधौ यथा - कल्पवित्कल्पयामास बन्यामिवास्य संविधौ । कूपो गर्तेऽन्धौ गुणवृक्षके ।। २८८ || मृन्माने कूपके । कूयते कूप: । युसुकुरु ( उ० २९७ ) इति प ऊत्वं च । अन्धौ स्त्रीपुंसः । अन्यत्र पुंसि । गर्ते यथा - एतन्मूषिक कूपनिर्गतमहामृत्स्नाकुलं वैरिणाम । अन्धौ उपादाने यथा - पयः कुग्रामकूपेऽपि तावन्मात्रं भविष्यति । गुणवृक्षे प्रवहणस्तम्भे