________________
द्वितीयः काण्डः
(१६७)
स्त्यानं स्यात्स्निग्व आलस्ये, प्रतिध्वानघनत्वयोः ।। सादी तुरङ्गमारोहे, निषादिरथिनोरपि ।।२८५।। स्वामी प्रभौ गुहे सून, पुष्पे सूना पुनः सुता ॥
अधोजिह्वा वधस्थानं, सूनुः पुत्रेऽनुजे रवौ ॥२८६॥ धयेच्छिवम् । आप्लवेऽभिषवे यथा-लोकः प्रयागवासी कूपे स्नानं समाचरति ॥२८४।। स्त्यानं स्यात्स्निग्ध आलस्ये प्रतिध्वानघनत्वयोः । स्त्यायतिस्म स्त्यानम् । क्ते "व्यञ्जनान्तस्था ४-२-७१ इति तस्य नत्वम् । स्त्यायते वाऽनट् । स्निग्धे वाच्यलिङ्गः। तत्र यथा-वक्त्रं तन्व्याः स्तवकितमिदं स्त्यानकस्तूरिकाभिः । घनत्वे काठिन्ये यथा-स्त्यानावनद्धघनशोणितशोणपाणिः । सादीतुरङ्गमारोहे निषादिरथिनोरपि ॥ सीदति सादी ग्रहादित्वाण्णिन् । निषादी गजारोहः। रथी रथारोहः । त्रिष्वपि यथा-विवादः सादिनां जज्ञे ।।२८५॥ स्वामी प्रभौ गुहे । स्वमस्यास्ति स्वामी। स्वामिन्नीशे । ७-२-४९ । मिन् । प्रभौ वाच्यलिङ्गः । द्वयोर्यथा-जनतीते मुदितमनसा नित्यं सुस्वामिना कृतानन्दा। सूनं पुष्पे सुनोति सूनम् । सोरू च (उ० २६३) इति नः । सूयतेस्म वा क्ते सूयत्यादीति तस्य नत्वम् । यथातस्यातसीसूनसमानभासः । पुष्पितेऽपि तत्र तु वाच्यलिङ्गः । सूना पुनः सुता। अधोजिह्वा वधस्थानम् । सुतायां यथा-सूनाः स्युः न्यू नपुण्यानाम् । अधोजिह्वा जिह्वातलम् । तत्र यथासूनाविधोच्छ्वासकासापनोदः। वधस्थाने यथा-पञ्चसूना गृहस्थस्य स्वर्ग तेन न गच्छति । सूनुः पुत्रेऽनुजे रवौ। सूयते सूनुः । सुवःकित् इति नुः । पुत्रे यथा-दिलीपसूनुर्मणिशकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बभौ । अनुजे यथा-अनुस्मृताखण्डलसूनुविक्रमः । .