________________
द्वितीयः काण्ड:
वृषभे तुरङ्गे पुंसि, शाखी तु द्रुमवेदयोः ।। राजभेदे शिखीत्वग्नौ, वृक्षे केतुग्रहे शरे ॥२८२॥ चूडावति बलीवर्दे, मयूरे कुक्कुटे हये ।।
शीनो मूर्खाजगरयोः, श्येनः शुक्ले पतत्त्रिणि ॥२८३॥ बाणे हये खगे । वाजः पत्रं वेगः पिच्छं वाऽस्त्यस्य वाजी । बाणे हये च यथा-युक्तं चक्रुः सायका वाजितायाः। खगे पक्षिणि यथा-वाजिनो वियति विभ्रममापुः । विन्नं विचारिते लब्धे स्थिते । विदिप विचारणे विद्लुती लाभे विदिच् सत्तायां वा। विद्यतेस्म विन्नं वाच्यलिङ्गः। त्रिष्वपि यथा-अनिविण्णविन्नाः । किल सकलशास्त्रोपनिषदः । वृषा तु वासवे । वृषभे तुरङ्गे पुंसि । वर्षति वृषा लूपूयुवृषि (उ० ९०१) इति किदन् । चचुषु अर्थेषु पुमान् वात्स्यायनप्रसिद्धः। वासवे यथा-वृषेव सीतां तदवग्रहक्षताम् ॥२८१।। शेषेषु यथा-वृषानिषेकं कुरुते रतान्ते । शाखी तु द्रुमवेदयोः । राजभेदे । शाखाः सन्त्यस्य शाखी। शिखादिभ्य इन् । ७-२-४ । द्रुमे यथा-नाभाजिकेवलमभाजि गजेन शाखी । वेदे यथा-पठन्ति शाखां वटवः स्वशाखिनः । राजभेदे यथा-संख्ये सशाखी विशिखैर्निजध्ने । शिखी त्वग्नौ वृक्षे केतुग्रहे शरे। चूडावति बलीव मयूरे कुकुटे हये। शिखाऽस्त्यस्य शिखी । शिखादित्वादिन् (७-२-४) चूडावति वाच्यलिङ्गः । शेषेषु पुंसि । अग्नौ यथा-स्पर्शमुष्णमुचितं दधच्छिखी यद्दाह हविरद्भुतं न तत् । वृक्षे यथा-आखवः शिखिमूलानि खनन्ति नखरैः खरैः । केतुग्रहे यथा-आख्याति संख्यं शिखिनः समुद्गमः । ॥२८२।। चूडावति यथा-जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः । मयूरे यथा-शिखिनां बहभारेषु केशान् । कुकुटे यथा