________________
(१६४)
अनेकार्थसंग्रहः सटीकः
वानं शुष्कफले शुष्के, सीवने गमने कटे । • जलसंप्लुतवातोमिसुरङ्गासौरभेषु च ।।२८०।। वाग्मी पटुबृहस्पत्योजी वाणे हये खगे ।।
विन्नं विचारिते लब्धे, स्थिते वृषा तु वासवे ॥२८१।। किरातेभ्यः शशंसुर्देवदारवः । सुन्दराकारे यथा-वर्मणा विदधती जगज्जयम् । वर्त्म नेत्रच्छदेऽध्वनि । वर्ततेऽनेनास्मिन् वा वर्त्म । मन् (उ० ९११) इति मन् । क्लीबे । नेत्रस्य छदं पक्ष्म(वर्त्म)। तत्र यथा-नेत्रवर्त्मरुधिरारुणं ततः। अध्वनि यथा-पुरस्कृता वर्त्मनि पार्थिवेन । वर्णी पुनश्चित्रकारे लेखके ब्रह्मचारिणि । वर्णो नीलपीतादिरकारादिः ब्रह्मचर्यं वाऽस्यास्तीति वर्णी । वर्णाद्ब्रह्मचारिणि ७-२-६९ इत्यभिधानादन्यत्रापि – इन प्रत्ययः । चित्रकारे लेखके च यथा-वर्ण्यन्ते वर्णिनां वर्णाः । ब्रह्मचारिणि यथा-अथाह वर्णी विदितो महेश्वरः ॥२७९।। वानं शुष्कफले शुष्के सीवने गमने कटे । जलसंप्लव वातोमिसुरङ्गासौरभेषु च। ओवै शोषणे। वायतिस्म वानम् । सूयत्यादीति ४-२-७०। क्तस्य नत्वम् । वेंग् तन्तुसन्ताने वांक् गति गन्धनयोर्वा अनयोर्भावे करणे वा अनट् नवस्वर्थेषु । शुष्के वाच्यलिङ्गः । तत्र शुष्के फले वातोर्मिषु जलसंप्लवे च यथावाने विताने नवगौस्तनीनां वानानि वानर्निपतन्ति वाने । शेषेषु अन्वेष्यम् ॥२८०॥ वाग्मी पटुबृहस्पत्योः। प्रशस्ता वाग् विद्यतेऽस्य वाग्मी । ग्मिन् । ७-२-२५। इति ग्मिन् । पटौ वाच्यलिङ्गः। तत्र यथा-वागेका वाग्मिनः सतः। बृहस्पतौ यथा-अत्र स्याज्जडजिह्वोऽपि वाग्मी विद्यामठे पठन् । वाजी . *प्र० संप्लव ।