________________
द्वितीयः काण्ड:
रथेऽद्रौ रथिके श्येने, प्रेम तु स्नेहनर्मणोः । ब्रह्मा तु तपसि ज्ञाने, वेदेऽध्यात्मे द्विजे विधौ ।। २७१ ।। ऋत्विग्योगभिदोश्चाथ बुध्नो गिरिशमूलयोः ।
भर्म भारे भृतौ हेम्नि, भानुरंशौ रवौ दिने
॥
( १५९)
२७२ ॥
खगे यथा
कृष्यपत्री वन्यस्य नेत्रविवरे माहिषस्य मुक्तः । इतोऽपि शरणागताः शिखरि पत्रिणः शेरते । शेषेषु यथासपत्रिभिः क्रीडति राजपुत्रः ।। २७० ।। प्रेम तु स्नेहनर्मणोः । प्रीणाति प्रेम । मन् ( उ० ९११ ) इति मन् । प्रियस्य भावो वा पृथ्वादित्वादिमनि प्रियस्थिरिति प्रादेश: । पुंक्लीबः । स्नेहे यथा- प्रेम पश्यति भयान्यपदेऽपि । नर्मणि यथा- विधत्ते मत्तेयं निधुवनविधौ प्रेमकलहम । ब्रह्मा तु तपसि ज्ञाने वेदेऽध्यात्मे द्विजे विधौ । ऋत्विग्योगभिदोश्वाथ बृंहति ब्रह्मा बृंहेर्नोऽच ( उ० ९१३ ) इति मन् । पुंक्लीबः । तपसि यथा- ब्रह्माङ्गभूर्ब्रह्म नियोजितात्मा । ज्ञाने यथा - समीभूतादृष्टिस्त्रिभुवनमपि ब्रह्म मनुते । वेदे यथा - यत्र त्वं ब्रह्म मीमांसा तत्वज्ञो दण्डधारकः । अध्यात्मे यथा- तृणं ब्रह्मविदः स्वर्गः | द्विजे यथा - ब्रह्मघ्ने च सुरापे च वा स्तेने च गुरुतल्पगे । विधौ यथा - ब्रह्माऽप्यन्तं न गच्छति ।। २७१ ।। ऋत्विग् भेदे यथा - यजन्ति ब्रह्माणः । योगभेदे यथा - ब्रह्मा ऐन्द्रोऽथ वैधृतिः । तत्वेऽपि मंखः । यथा - ब्रह्मज्ञानाभ्यसनविधिना योगनिद्रागतस्य । बुध्नो गिरिशमूलयोः । बुध्यते बुध्नः । जीण्शी ( उ० २६१ ) इति कित् नः । गिरिशे यथाअहये ( शेषाय) बुध्नाय नमो नमोऽस्तु गणपतये । मूले यथाबुधनेन बुध्नाति बलिष्टतां तरुः । भर्म भारे भृतौ हेम्नि- भरणं