________________
द्वितीयः काण्ड:
चर्म त्वचि स्फुरे चर्मी, भूर्जे फलकिभृङ्गिणोः ॥ चक्री कोके कुलालेsहो वैकुण्ठे चक्रवर्तिनि ॥ २५९ ॥ चिन्हमके पताकायां, चीनो देशैणतन्तुषु ॥ व्रीहौ वस्त्रे छमशायेऽपदेशे घातिकर्मणि ॥ २६०॥ छन्नं रहश्छादितयोश्छिन्ना स्यादमृत्वरी । छिन्नं भिन्ने जनो लोके जगद्भेदे पृथग्जने || २६१।।
(१५३)
किं वसन्तो । नाहं चक्री कुलालो नहि धरणिधरः किं फणीन्द्रो द्विजिह्वः | अही यथा - पदास्पृशन्तं सहते न चक्री । चक्रवर्तिनि यथा - विजिग्ये भरतश्चक्री राजचक्रं रणाङ्गणे । तैलिकरथयोरपि मखः । क्रमेण यथा - दशशूनासमश्चक्री । वेगात्येतुश्चक्रिणो वक्रताश्वाः ।। २५९ ।। चिन्हमङ्के पताकायाम् - चह कल्कने । दिननग्न ( उ० २६८) इति निपातनात् चिन्हम् । अङ्कं यथा - करजदशनचिन्हं नैशमङ्गेऽन्यनारीजनितमिति । पताकायां यथा उच्चचिन्हमुरसद्मगोचरः । चीनो देशैणतन्तुषु । व्रीहौ वस्त्रे । चीयते चीनः । दिननग्न ( उ० २६८) इति साधुः । सर्वेषु यथा-चीनाश्चीनं समश्नन्ति चीनांशुकसुकोमलाः । छद्मशाठ्येऽपदेशे घातिकर्मणि । छाद्यते छद्म मन् क्लीबः । छदेरिस्मन् | ४|२|३३| इति ह्रस्वत्वम् । शाठ्ये कैतवे यथा - दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः । अपदेशे व्याजे यथा - जगाद वदनच्छद्मपद्मपर्यन्तपातिनः । घातिकर्मणि यथा-छद्मस्थान वदन्ति किञ्चन जिना: । अत्र हि छद्मानि घातिकर्माणि ज्ञानावरणीयादीनि तिष्ठन्ति - अत्रेति छद्मस्थ: ।। २६० ॥ छन्नं रह छादितयोः - छाद्यते स्म छन्नम् । णौदान्तशान्त ४।४।७४ | इति साधुः । छादिते वाच्यलिङ्गः । रहसि यथा - अथ प्रच्छन्नपापानां शास्ता वैवश्वतो यमः । छादिते यथा - छन्नोपान्तः