________________
द्वितीय काण्डः
(१४१)
दुग्धं क्षीरे पूरिते च, दोग्धा गोपालवत्सयोः । अर्थोपजीवककवो, बन्ध आधौ च बन्धनें ॥२३८॥ बन्धुर्भ्रातृवान्धवयोर्बाधा दुःखनिषेधयोः । बुधः सौम्ये कवो बुद्धः, पण्डिते बुद्धिते जिने ॥२३६।। वत्सयाः । अर्थोपजीवककवौ । दोन्धिदोग्धा तृच् । गोपाले यथामेरौ स्थिते दोग्धरि देहदक्षे । घत्से यथा-दोग्धारं जिह्वया लेदि दुह्यमाना पयस्विनी। अर्थोपिजीवककवा यथा-कवयः परदोग्धारो हा रयन्ति निजं यशः । बध आधौ च बन्धने । बध्यतेऽनेन बन्धन वा बन्धः । आधिर्विनिमयस्थाप्यं वस्तु तत्र यथा-बन्धेन बबन्धुः प्रमदाः स्वदेहम् । बन्धने यथा-ज्याबन्धनिष्पन्दभुजेन यस्य । रचनास्नेहवृन्तेष्वपि मङ्गः क्रमेण यथा-बन्धच्छायाविशेषण रसोन्यन्यादृशो भवेत् । विमेदेनोतां प्रतितस्य बन्धः। आशाबन्धः कुसुम सदृशं प्रायशो ह्यङ्गनानाम् ॥ २३८ ॥ बन्धुओबान्धवयोः ।
बध्नाति बन्धुः “भ्रमृतृ" इत्युः । पुंसि । भ्रातरि यथा- सुग्रोवबन्धोर्षधम् । बान्धवे स्वजने यथा-सार्ध बन्धुजनैः समेत्य
न चिराद्वक्ता स्वयं रावणः । बाधा दुःखनिषेधयोः । बाधनं बाधा। स्त्रीपुंसः । दुःखे बथा-पायां विधातुमधरे हि न तावकीने पोयूषसारघटिते घटतेऽस्य शक्तिः । निषेधे यथा-त्रिवर्गमुपभुञ्जीत परस्परमबाधया बुधः । सौम्ये कवौ । बुध्यते बुधः । सौम्ये यथा-चन्द्राधः समभवद्भगवान् । कवी विदुषि यथाविरमत बुधा योषित्सङ्गात् प्रतिक्षणभङ्गुरात् । भमरेऽपि मखः । यथा-बुबुधे न बुधोपमः । दुखः पण्डिते बुधिते जिने । बुध्य ते स्म घुद्धः । कर्तरि कर्मणि वा क्तः । पण्डिते बुधितयोर्षाच्यलिङ्गः । पण्डिते यथा-स्वयंबुद्धो नमिनृपः । बुधिते जाते