________________
(१३८)
अनेकार्थसंग्रहः सटीकः
मृष्टे सूदः सूपकारे व्यञ्जनेऽपि च सूपवत् । स्वेदो धर्मे वेदने चान्धोन्धकारेऽक्षिवर्जिते ॥२३४॥ - यथा । संविदं लङ्घयेच्च यः । प्रतिज्ञायां यथा- विपक्षोच्छेदसंविदा । संकेते यथा-स राजलोकः कृतपूर्वसंवित् । आचारे यथा-कथं तपोवनसंविदमतिकात्ता तत्र भवति । संपदृद्धो "गुणोत्कर्षे हारे संपद्यतेऽनया संपत् स्त्रियाम् । ऋद्धौ यथा - संपदा सुस्थितंमन्यो भवति स्वल्पयापि यः । गुणोत्कर्षे यथाअकृष्टपच्या, इव सस्यसंपदः । हारो हारभेदः संपदाख्यः । स्वादुस्तु सुन्दरे मृष्टे । स्वद्यते स्वादुः “कवा पाजि" इति उण । गुणे क्लीबः । तद्वति वाच्यलिङ्गः । सुन्दरे यथा-कृतिस्तु रामचन्द्रस्य सर्वा स्वादुः पुरः पुरः ॥ २३३ ॥ मृष्टे रुच्ये यथातृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि । सूदः सूपकारे व्यञ्जनेऽपि च सूपवत् । सूबते सूद्यते वा सूदः । सुन्वन्ति तेन सूपः। "युसुकुरुतुभ्यः स्वादे सञ्च" इति पः। सूपकारे यथा-आदिशत् भरतः सूदान् सूपैः सोपायनैरिव । व्यञ्जने यथा-सदस्वादनविचिकाहितः । समुद्गसूप सघृतं सतेमनम् । स्वेदो धौ स्वेदने, च। विद्यतेऽनेन स्वेदन वा स्वेदः । धर्मे प्रस्वेदे यथा-स्वेदीद्वमः कि पुरुषाङ्गनानां चक्रे पदं पत्रविशेषेषु केषु । स्वेदने क्लेदेने यथा-स्वेदो देयो नवज्वरे । साविकभावेऽपि मङ्खः यथाआत्मनैव रुरुधे कृतिनेव स्वेदसंगि वसन जघनेन ॥ अथ धान्ताः" अन्धोऽन्धकारेऽक्षिवर्जिते । अन्धयति अन्धः अति वा । "स्कन्धमिभ्यां ध" । अन्धकारे पुक्लीवः । अक्षिवर्जिते वाच्यलिङ्गः । अन्धकार यथा-अन्धो वृतेषु ककुभां वदनेषु चन्द्रः । सान्दैः करविकिरतीव सुधाप्रवाहम् । अक्षिवर्जिते यथा-अदृष्टमुखभङ्गस्य युक्तमन्धस्य याचितुम् । अहो बत महाकष्टं च चक्षुष्मानोपि
।
.
..