________________
द्वितीयः काण्डः
(१०५)
प्राप्तिमहोदये लाभे पित्सन् पिपतिषन् यथा । पतनेच्छौ विहङ्गच पीतो वर्णनिपीतयोः ॥१७५॥ पीता हरिद्रा पीतिः पानेऽश्वे प्रीतिः स्मरस्त्रियाम् । प्रेम्णि योगमुदो पुस्तं शिल्पे लेप्यादिकर्मणि ॥१७६॥ "पुज्ञायजि" इति तिः, पदनं वा । सेनाभेदे गतौ च स्त्रियाम् . पद्गे पुंसि । सेनाभेदे यथा-एकेभैकरथाज्यश्वा पत्तिः पञ्च पदातिका। पद्गे पदातौ यथा-पत्तिः पदाति रथिनं रथेशः । गतौ यथा-पत्तिः स्वर्गगृहे भवेत् सुकृतिनः कस्यापीति ॥ १७४ ॥ प्राप्तिर्महोदये लामे। प्रापणं प्रातिः स्त्रियाम् । महान् उदयो महोदयः तत्र यथा-प्राप्तिः कस्य न साधुसंगमवशाच्छीघ्रं भवेन्जन्मिनः । लामे यथा-स्थानप्राप्त्या दधानं प्रकटितगमकं मन्द्रतारव्यवस्थाम् । पित्सन् पिपतिषन् यथा-पतनेच्छौ विहङ्गे च । पतितुमिच्छन् पित्सन् पिपतिषन् । सनि एकत्र "रभलभ" इति अत इत्वम् द्वित्त्वाभावश्च । अन्यत्र “इवृध भ्रस्ज" इति वेट् । चतुःस्वरस्यापि लाघवार्थ द्विस्तरेषु पाठः । वाच्यलिङ्गौ । द्वयोर्यथा-पित्यन्तः किल किं चितेन हृदयं कर्षन्त्यमी वालकाः । ऋगिति पिपतिषन्तः केन शक्या निषेद्धम् । पीतो वर्णनिपीतयोः । पीयते स्म पीतः । वर्णे पुंसि तद्वति निपीते च वाच्यलिङ्गः । द्वयोर्यथा-दत्तमिष्टतमया मधु पत्युर्बाढमाप पिबतो .रसवत्ताम् । यत्सुवर्णमुकुटांशुभिरासीश्चेतनाविरहितैरपि पीतम् ॥ १७५ ॥ पीता हरिद्रा यथा-आर्द्रक भद्रकपीतरसं वचवासकब्राह्मी सर्जरसम् । अत्र "यापो बहुलं नाम्नि" इति हस्वः । पीतिः पानेऽश्वे । पानं पीतिः “मापा" इति स्त्रियां तिः । पेयादिति वा "तिकृतौ नाम्नि" इति तिक् । अश्वे पुंसि । द्वयोर्यथा-बद्धकक्षाः परं पीतौ पत्तयो