________________
द्वितीयः काण्डः
त्रिगाशेऽप्यथ ग्रस्त जग्धे लुप्तपदोदिते । गतिवहबणे ज्ञाने यात्रोपायदशाध्वसु ॥१६३ ॥ गीति छन्दसि गाने च गीतं शब्दितगानयोः । गुप्तं गूढे त्राते गुप्तिर्यमे भूगर्तरक्षयोः ॥ १६४॥ भूगर्तरक्षयोः । कारायाम् । गोपन गुप्यते अनयो वा गुप्ति: । यमो मनोवाक्कायसंयमः तत्र यथा-गुप्तित्रयपवित्रितः । भूगों दीर्घ भूमिविवरम् । रक्षायां यथा-शीलगुप्तिः कुलीनया ॥ १६ ॥ कारा बन्धनागारम् । तत्र यथा- दलितदलकपाटः षट्पदा सरोजे सरभस इव गुप्तिस्फोटमर्कः करोति । घृतमाज्या दीप्तेषु । घृ सेचने । घरति घृतम् “शीरीभूहसु' इति कित् तः । आज्ये पुंक्लोबः । दीप्ते वालिङ्गः । आज्येऽम्बुनि च यथा-घृतसंवर्धितरुचयो व्रततय इव योषितो विराजन्ते । अथ चिताचिती मृतार्थदारुषु चये । चीयते चिता। स्त्रियां क्तौ चितिः। मृतस्य दाहार्थ शय्यारूपाणि दारूणि तत्र यथा-तदङ्गसंस्पर्शमवाप्य कल्पते ध्रुवं चिताभस्मरजोऽपि शुद्धये । चयः समूहः। चिति शब्दे । द्वयोर्यथा-चितये काष्ठचितिं तनोति सः।चिति ज्ञानेऽपि इति मङ्खः । यथा-चितिः प्रत्यवमर्शात्मा । जगला केङ्गवायुषु । गच्छतीति जगत् "दिद्युद्ददृ" इति साधुः। लोको विष्टपम् तत्र क्लीवः । इङ्ग जङ्गमम् तत्र वाच्यलिङ्गः । वायो पुसि । लोके यथा-परस्परस्त्रीधनलोलुप जगत् । इङ्गे यथा-त्वं मुनीन्द्र जगत्तीर्थम् । वायो यथाजगज्जगन्ति भ्रमतीति चित्तम् ॥ १६५ ॥ जातं जात्योघजनिषु । जायतेऽस्मिन् जननं वा जातम् । जाति: सामान्य तत्र यथारत्नं सुजातं कनकावदातम् । ओघे समूहे यथा-निःशेषविश्राणितकोशजातम् । जनिर्जन्म । संपन्नेऽपि । द्वयोर्यथा-जाते पुत्रस्य