________________
द्वितीयः काण्डः
भेदे गीतक्रमे चित्रे यशस्तालविशेषयोः । अङ्गरागे च वर्णं तु कुङ्कमे वाणिरम्बुदे ॥ १५१ ॥ व्यूतौ मूल्ये सरस्वत्यां वीणा स्याद्वल्लकी तडित् । वृष्णिषे यादवे च वेणी सेतुप्रवाहयोः ॥ १५२ ॥
(९१)
नभसि बद्धपयोदचक्राः । वर्णः स्वर्णे व्रते स्तुतौ । रूपे द्विजादौ शुक्लादौ कुथायामक्षरे गुणे । भेदे गीतक्रमे चित्रे यशस्ताले विशेषयोः । अङ्गरागे च । वर्ण्यते वर्णनं वा वर्णः । अल् । वृणातेर्वा " इणुर्विश" इति णः । पञ्चदशस्वर्थेषु । शुक्लादौ अक्षरे च क्लीब: । अन्यत्र पुंसि । स्वर्णे यथा - कर्णेषु वर्णाभरणानि चक्रुः । व्रतं ब्रह्मचर्यं तत्र यथा - अथाह वर्णी विदितो महेश्वरः । अत्र हि वर्णो ब्रह्मचर्यमस्यातीति वर्ण "वर्णादब्रह्मचारिणि " इति इन् स्तुतौ यथा आकर्णयन्ति तव वर्णममुं सकर्णाः । रूपे आकारे यथावर्णस्वर्णमलंकरिष्णुरलिनीं जिष्णुः कचानां चयः । द्विजादौ यथावणाश्रमाणां गुरवे सवर्णी । शुक्लादौ यथा - द्रव्याश्रयेष्वपि गुणेषु रराज नीलो वर्णः पृथस्नत इवालिगणों गजानाम् । कुथा गजाद्यास्तरणम् । तत्र यथा- परार्ध्यवर्णास्तरणोपपन्नमासेदिवान् रत्नवदासनं सः । अक्षरं स्वरादिः तत्र यथा अष्टौ स्थानानि वर्णानाम् । गुणां दोषेतरः । तत्र यथा-स्वगुम्यो गिरो मुनिवताः परवर्णग्रहणे च साधवः ॥ १५० ॥ भेदः प्रकारस्तत्र यथा नानावर्णसुगंधपुष्पनिचयैः सर्वत्र यः पुष्पितः । गीतक्रमे रागपरिपाटवां । यथा उपात्तवर्णे चरिते पिनाकिनः । चित्रमालेख्यं तत्र यथा- विवर्णवर्ण तव शत्रुहम् । यशसि यथा अवर्गवादी न कापि राजादिषु विशेषतः । तालविशेषो वर्णतालः | अङ्गरागो
"
विलेपनं तत्र यथा
܂
S
-निर्वर्ण्य वर्ण इतकेलि शीर्णम् । मखेऽपि । वर्ण तु