________________
(७६)
अनेकार्थ-संग्रहकोषः सटीकः
भाण्डं मूलवणिग्वित्ते तुरङ्गणां च मण्डने । नदीकूलद्वयीमध्ये भूषणे भाजनेऽपि च ॥ १२३ ॥ मण्डो मस्तुनि भूषायामेरण्डे सारपिच्छयोः । शाके मण्डा चामलक्यांमुण्डोमुण्डितशीर्षयोः॥१२४॥ यथा- पिण्डं गृहाण पिब वारि यथोपनीतम् । पिण्डं तु वेश्मैकदेशे जीवनायसोः । बले साने । जीवनम् जलम् । भयो लोहम् ॥ १२१ ॥ बलं स्थाम । सान्द्रं बहुलम् । पिण्डयलाबूखर्जर्यास्तगरेऽपि च । “गौरादित्वाद् " टीः । अलाबूः तुम्बी। तगरो गन्धवृक्षः पीडार्तिमर्द नोत्तंसकृपासु सरलद्रुमे । पीडनं पीडयते वा पीडा " भीषिभूषि" बहुवचनात् अङ् । पञ्चस्वर्थेषु । आर्ती मदने च यथा-परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरः । कृपायां यथा-सन्तः सपीडा जने ॥ १२२ ॥ भाण्डं मूलवणिग्वित्ते तुरगाणाम् च मण्डने । नदीकूलद्वयीमध्ये भूषणे भाजनेऽपि च । भामते अनेन भाण्डम् “पञ्चमाडः” इति डः । मूलं वणिजो वित्तम् । . तत्र यथा-तरीषु तत्रत्यमफल्गुभाण्डं सांयात्रिकानावपतोऽभ्यनन्दत् । तुरङ्गाणां मण्डनम् आभरणं पर्याणादि च । तत्र यथा-व्यरंसिपुन खलु जनस्य दृष्टयः, तुरङ्गमादभिनवभाण्डभारिणः। नदीकूलद्वयीमध्ये यथा-भाण्डेऽपि नद्यम्बु न जानुदघ्नम् । भूषणे यथा-कनकभाण्डविडवितरण्डया । भाजने यथा-येनेदं रफुटती विनिर्भरभृतं ब्रह्माण्डमाण्डोदरम् ॥ १२३ ॥ मण्डो मस्तुनि भूषायामेरण्डे सारपिच्छयोः । शोके । मण्डयति मण्डन वा मण्डः । षटस्वर्थेषु पुक्लीबः । मस्तु दधिज तत्र यथा-अजाजी शृङ्गबेरं च दधिमण्डेन भावयेत् । भूषा अलंकारः तत्र यथा-पुनातु चण्डीकृतमुण्डमण्डा । एरण्डः पञ्चाङ्गुलः। सारं भक्तादिनिर्यासः तत्र यथा