________________
(२८)
(१२८)
यदुक्तम्
असंखेजाण उस्सप्पिणीण ओसप्पिणीण जे समया। संखाइया लोगा लेस्साणं हुं ति ठाणाई ॥१॥..
कहा है कि असंख्य उत्सर्पिणी और अवसर्पिणी का जितना समय होता है उतना समय और असंख्यात लोकाकाश जितने प्रदेश होते हैं उतने लेश्या के स्थान हैं।
अभिप्रायोयादृशः स्यात् सतीष्वेतासु देहिनाम् । स मया समयोक्ताभ्यां दृष्टान्ताभ्यां प्रदेर्श्यते ॥३६३॥'.
प्राणियों में इन लेश्याओं के सद्भाव से किस प्रकार का अभिप्राय होता है? इस विषय में सिद्धांत में जो दो दृष्टान्त दिये हैं वह मैं समझता हूँ। (३६३) .
यथा पथः परिभ्रष्टाः पुरुषाः षण्महाटवीम् । प्राप्ताः समन्तादेक्षन्त भक्ष्यं दिक्षु विभुक्षिताः ॥३६४॥ जम्बूवृक्षं क्वचित्तत्र ददृशुः फल भंगुरम् । आह्वयन्तमिवाध्वन्यान् मरूच्चपल पल्लवैः ॥३६५॥ एकस्तत्राह वृक्षोऽयं मूलादुन्मूल्यते ततः । सुखासीनाः फलास्वादं कुर्मः श्रमविवर्जिताः ॥३६६॥ .. अन्यः प्राह किमेतावान् पात्यते प्रौढपादपः । शाखा महत्यश्छिद्यन्ते सन्ति तासु फलानि यत् ॥३६७॥ तृतीयोऽथा वदत् शाखा भविष्यन्ति कदेदृशः । प्रशाखा एव प्रात्यन्ते यत एताः फलैर्भूताः ॥३६८॥ उवाच वाचं तुर्योऽथ तिष्टन्त्वेता वराकिकाः । यथेच्छं गुच्छ संदोहं छिद्मो येषु फलोद्गमः ॥३६६॥ न न: प्रयोजनं गुच्छैः फलैः किन्तु प्रयोजनम् । तान्येव भुवि कीर्यन्ते पंचमः प्रोचिवानिति ॥३७०॥. षष्टेन शिष्ट मतिना समादिष्ट मिदं ततः । पतितानि फलान्यग्रो माभूत्पातन पातकम् ॥३७१।।