________________
आह्वादने चन्द्रमसो हि शोभां,
धत्ते कृपालुर्जनतापहर्ता। समाधिनिष्ठः पुरुषार्थहस्तः,
गुरोः कृपातो जयताद् यतीन्द्रः ॥६॥ कार्यान्तगः शिक्षणपारदृश्वा,
गुरोश्च वाक्यानि वहत्यजस्रम्। क्रोधादिजेता जगद्वितीय. धाराप्रवाही वचने यतीन्द्रः ॥७॥ गृहीत विद्याविजयः सुशिष्यः,
समस्तलोकोपकरिष्णुरेषः। मासान् हि वेदान् गमयन् हि कुक्सौ,
. सुखेन तस्थौ मुनिराड् यतीन्द्रः ॥८॥ इदं हिं पद्ममष्टकं कृतं मयाल्पबुद्धिना,
विशोध्य मूलतस्ततो गुणान् विभाव्य सन्ततम्। भणन्तु पण्डिता जनाः सभासु तान्प्रपूजितान्, . ब्रजन्तु सज्जनाः सुखं सुरालयं स्वकर्मणा ॥९॥
ता. २५.१०.२५
पं. पन्नालाल शास्त्री - नागर
रतलाम (मालवा)
(२१)