________________
॥ अहम् ॥
किञ्चित्प्रस्ताविकनिवेदनम् । ___ इह हि जगज्जन्तुनिष्कारणबन्धूनां परमपवित्रचरितां तीर्थकृतां विधिपूर्वकवन्दनविधानं विदधाति स्वर्गापवर्गादिसुखसंपत् हरति चानेकभवसश्चितदुष्कर्मकदम्बकमिति समवधार्य परमकारुणिकचेतोभिरवगतविशुद्धसिद्धान्तसारैः श्रीमच्छान्तिसूरिभिश्चतुर्विधश्रीसङ्घस्य परोपकृतये जिनागमआवश्यकनियुक्ति-विशेषावश्यक-पञ्चाशकाद्यनेकचिरलप्रकरणग्रन्थेभ्यः समुद्धत्य चैत्यवन्दनविधिबोधबन्धुरं पूजाविधिप्रमुखानेकविचारसारकलित प्रमाणभूतागमप्रमाणेन निराकृतानेकसन्देहं चैत्यवन्दनसूत्रव्याख्याप्रधानं चैत्यवन्दनमहाभाप्यनामा ग्रन्थः सङ्कलितः । . यद्यपि ग्रन्थस्यास्य प्रान्तवर्तिना-" इति श्रीशान्त्याचार्यविरचितं चैत्यवन्दनमहाभाष्यं सम्पूर्णम् ।” इत्यनेनोल्लेखेन श्रीशान्त्याचार्या ग्रन्थस्यास्य सङ्ग्रहीतार इति प्रकटमेवावसीयते, तथापीह जिनमतवर्तिप्वनेकेषु गच्छेपु-उत्तराध्ययनबृहद्वृत्तेः कर्ता स्थिरापद्रगच्छीयवादिवैतालश्रीशान्तिसूरिः १ तिलकमञ्जरीकथाटिप्पनकस्य रचयिता पूर्णतल्लगच्छीयश्रीशान्तिसूरिः २ वार्तिकवृत्तेविधायकश्चन्द्रकुलीयश्रीवर्द्धमानसूरिशिंप्यश्रीशान्तिसूरिः ३ धर्मरत्नप्रकरणस्वोपज्ञवृत्ति-बृहल्लघुपृथ्वीचन्द्रचरित्राणां विरचयिता चन्द्रकुलनभश्चन्द्रश्रीनेमिचन्द्रसू रिशिप्यश्रीशान्तिसू रिः ४ भक्तामरस्तोत्रवृत्तेः प्रणेता खण्डिल्लगच्छीयश्रीशान्तिसू रिः ५ प्रमाणप्रमेयकलिकावृत्तेनिर्माता श्रीशान्तिसू रिः ६ जीवविचारप्रकरणस्य विधाता श्रीशान्तिसू रिः ७ घटखर्परराक्षस-वृन्दावनकाव्यादिवृत्तीनां प्रथयिता श्रीशान्तिसूरिः ८ बृहच्छान्तेः कवयिता श्रीशान्तिसू रिः ९ पर्वपञ्चाशिकायाः (अभिषेकविधेः) प्रणेता श्रीशान्तिसू रिः १० पिण्डैपणाशतकस्य रचयिता श्रीशान्तिसू रिः ११ इत्येते ग्रन्थकर्तृत्वेन सुविदिता अभूवन् परमेतेषां मध्यात्कतमा अस्य प्रस्तुतग्रन्थस्य सङ्ग्रहीतारः श्रीशान्त्याचार्याः संभवेयुः ? कदा कतमं च १ एते श्रीशान्तिसूरयः पिप्पलगच्छप्रवर्तका भवेयुरिति संभाव्यते ।