________________
622
न्यायमञ्जरी [अनुभवासिद्धहेतोः न सप्रतिपक्षस्वम् ] ये तु सूक्ष्मोत्प्रेक्षणक्षमप्रजातिशयाभि'मा'नदुर्विदग्धाः तथाविधानपि प्रयुंजते
कृतक रचनाचातुर्य तैः प्रदशितमात्मनः
भवति न पुनश्शुद्धिः काचित्प्रमेयदिशः कृता। क्वचिदवसरे एवंप्रायाः परभ्रमकारिणः
किल सफलतां दध्युः जल्पे* यथा कथितं पुरा॥ तत्र त्वेतान् कथयति परः प्राज्ञमानी यदा वा
तस्याख्येयो निपुणमतिना पूर्वनीत्या समाधिः । द्राधीयस्या तदलमनया तार्किकम्मन्यगोष्ठया
हेत्वाभासः प्रकरणसमस्त्वेष निर्णीत एव ॥
[असिद्धलक्षणम् ]
साध्याविशिटः साध्यत्वात्साध्यसमः ॥ १-२-८ ॥
अन्यतरवादिप्रसिद्धअन्यतरं प्रति यत् साधयितुमुंपादीयते, तत् साध्यम् । तदविशिष्टो हेतुः साध्यसमः॥ .
कथं साध्येन तुल्यता हेतोरिति चेत्, आह-साध्यत्वादिति । यथा साध्यमसिद्धत्वात् साध्यम्, तथा तसिध्यर्थमुपात्तो हेतुरपि यः असिद्धत्वात् साध्यः, सः साध्याविशिष्टत्वात् साध्यसम उच्यते ।
* जल्पे-इति वितण्डाया अप्युपल झकम् ।।
___1 धा-ख,
व-ख.