________________
534
न्यायमञ्जरी दिक'संयोगनिबन्धनं, तत् तद्विरुद्ध दिग्वृत्तेः संयोगस्योपमर्दकमिति नाति. प्रसङगः । एवं कर्माविष्टस्योत्तरसंयोगदर्शनमदूषणं, विगन्तरसंयोगस्य तेनोपमर्दनात् ॥
[ एकस्योभयकारिस्वेऽदोषः] अपि च यदेव कर्म वंशदलनविभागकारि कथ्यते, तदेव दलाकाश: विभागकारि भविष्यति। को दोषः ?
ननु ! व्योमविभागकारि कर्म, न द्रव्यारम्भकसंयोगप्रत्यनीकभूत. विभारम्भकं, अम्भोरह कर्मवत् इत्युक्तम्-सत्यमुक्तम् , अयुक्तं तुशतपत्रपत्रकर्मणोऽपि द्रव्यारम्भकसंयोगप्रतिकूलविभागारम्भकत्वात्। तच कर्म कुड्मलकमलात् विकचकमलस्यान्यत्वनिश्चयानिश्चितम् ॥
[कमलकुड्मलकुसुमयोर्भेदः आवश्यकः ] . ननु ! तदेवेदमरविन्दमिति संदेहविपर्ययरहिततामरसप्रत्यभिज्ञा. दर्शनात् कथं संकोचविकासदशामात्रभेदात् तदन्यत्वमिति कृतमनया दुरा शया*। शरीरेऽपि सुस्पष्टोपलभ्यमानशैशवयौवनवार्धकादिदशाभेदभिन्न स्वरूपे प्रत्यभिज्ञानदर्शनात्। न च शरीरकुशेशययोः विशेषलेश मति. कृशम पि पश्याम इति कुतस्तदेकत्वम् ॥
भवतु वा पुण्डरीकस्याविनाशः ! निदर्शनमात्रमिदं तु वणितम् , न तु प्रतिबद्धः कश्चन हेतुरस्तीत्य भ्यधायि, येन वंशदलकर्मणः कोकनदपल्लवकर्मसाम्यं कल्प्येत। क्रियात्वं त्वप्रयोजकमेव, तत्कर्मणां विचित्र. कार्यहेतुत्वात् ॥
___* अन्यथा हि परिणामवादप्रसरप्रसङ्गः ।।
1 सं-च. : पल्लवक-ख, 'म-ख,
धा-क, ख,घ, .