SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ दशममाह्निकम् 533 यदधिकरणो विभागः तदधिकरणमेव संयोगमुपशमयति, न त्वङगुलिविभागः कुण्डबदरसंयोगोपमय प्रभवतीत्यतः न वंशदलवृत्तिविभागः दलाकाशसंयोगमुपहन्तुमलमिति नूनं दलाकाशसंयोगवैरिणा दलाकाशविभागे'न भवितव्यम् ॥ [विभागजविभागस्यावर्जनीयत्वम् ] - तदिदानीं तस्योत्पत्तिकारणचिन्तायां क्रियायां-वंशदलविभागमात्रो पजनने चरितार्थत्वात् , तं निर्माय विभागान्तरनिर्माणे विरम्य व्यापारासंवेदनात् , अवश्यं वंशदलविभाग एव प्रत्यासन्नतया दलाकाशविभागारम्भकोऽभ्युपगमनीयः। एवमनभ्युपगमे कर्मनित्यत्वप्रसङगादिति || . [ विभागजविभागखण्डनम् ] अत्र वदन्ति। *न कर्मनित्यत्वं अनभ्युपगम्यमानेऽपि विभागजे विभागे भविष्यति ; उत्तरसंयोगस्य कर्मविनाशहेतोरस्तित्वात् । पूर्वसंयोगानुपरमे कथं तदुत्पाद इति चेत् ; बाढम् ! उपरत एव पूर्वसंयोगः। कस्तस्योपरमहेतुरिति चेत्' कर्म ह्युत्तरसंयोगनिमित्तं यदुपेयते । तदेव पूर्वसंयोगध्वंसकारि भविष्यति ॥ न यज्जनने शक्तं अशक्तं तद्विनाशने । हेतुर्दहनसंयोगः पाकजोत्पादनाशयोः ॥ यथा च विभागेऽधिकरणनियमः, यदाधारो विभागः, तदाधारमेव संयोगं निरुणद्धि ; तथा कमण्यपि नियमः। कर्मापि स्वाश्रयस्य यदन्य ___ * न भविष्यति–इत्यन्वयः ॥ 1 गे-ख. वि-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy