SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ सप्तममाह्निकम् -प्रमेयपरीक्षा [प्रमेयनिर्देशः ] एवं प्रमाणपदार्थे परीक्षिते सति यदर्थ तत्परीक्षणं तत् प्रमेयमिदानी दर्शयितुमाह'आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखा पवर्गास्तु प्रमेयम् ॥ १-१-९ ॥ प्रमाणवदिहाप्येतत्सूत्रं व्याख्यायि सूरिभिः। एवं विभागसामान्यलक्षणप्रतिपादकम् ॥ . प्रमेयश्रुतिरात्मादिपद पर्यन्तवतिनी। तेषामेव प्रमेयत्वं नान्यस्येति नियच्छति ॥ यथा 'देवदत्तयज्ञदत्तविण्थुमित्रा भोज्यन्ताम्' इति एवकारादिश्रुतिमन्तरेणापि शब्दसामर्थ्यात् त एव भोजनक्रियायोगिनोऽवगम्यन्ते, नान्ये ; तथेहाप्यात्मादयः प्रमेयमित्युक्ते तथैव तदितरप्रम्यनिषेधोऽवधार्यते ॥ [प्रमेयविभागाक्षेपः] ननु कथं द्वादशविधमेव प्रमेय मवधार्यते', यावता समानतन्त्र पृथिव्यानोनिनव द्रव्याणि' रूपादयश्चतुविशतिगुणाः, उत्क्षेपणादि ... * पद्यते-गम्यते इति पदं-मोक्षः॥ 1 मध्याप्यते-क, मुपपद्यते-ख, सामान्य-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy