________________
430
प्रमाण्यस्वतस्त्वपरतस्त्वविचार:
[न्यायमचरी
तत्रापि नाप्रवृत्तस्य हेतुसामर्थ्यदर्शनम्। एवमेव प्रवृत्ती तु निश्चितेनापि तेन किम् ॥ ६७ ॥ तन्निश्चयात् प्रवृत्तौ वा पुनरन्योन्यसंघटम् । तन्निश्चयात् प्रवृत्तिः स्यात् प्रवृत्तेस्तद्विनिश्चयः ॥ ६८ ॥
[प्रामाण्यस्वतस्त्वोपसंहारः] तदेवं 'न कुतश्चिदपि प्रामाण्यनिश्चयः चक्रकेतरेतराश्रयानघस्थावैयादिदूषणातीतस्थितिरस्तीत्यतः प्रामाण्यनिश्चयेऽपि न किञ्चिदपेक्षते प्रमाणम् । 'अतश्चोत्पत्ती, स्वकार्य करणे, स्वप्रामाण्यनिश्चये च निरपेक्षत्यादपेक्षात्रयरहितत्वात्स्वतःप्रामाण्यमिति सिद्धम्। तदुक्तम् (श्लो. वा. चोद-47)---
'स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्यताम् । न हि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते' ।
[अप्रामाण्यपरतस्त्वोपसंहारः] . अप्रामाण्यं तूत्पत्तौ दोषापेक्षत्वात्, स्वनिश्चये बाधकप्रत्ययादिसापेक्षत्वात् उभयत्रापि परत इत्युक्तमेव। तस्मात् पक्ष त्रयस्या. उनुपपतेश्चतुर्थ एवायं पक्षः श्रेयान्-प्रामाण्यं स्वाः, अप्रामाण्यं परत इति ।
[मामाण्याप्रामाण्ययोः परतस्त्वशङ्का मनु! चोत्पत्तिवेलायां न विशेषोऽवधार्यते।
प्रमाणेतरयोस्तेन बलाद्भवति संशयः । ६९ ॥ पत्कारण, तदनुमानात् प्रामाण्यमव्यभिचरितं निश्चीयत इति भावः । पवमेव-प्रामाण्यनिश्चयात् पूर्वमेव ॥
प्रामाण्यनिश्चयेऽपीति । यदा कुतश्चिदपि प्रामाण्यनिश्चयः असंभवी, भनुभूयते च प्रामाण्यं, सतः तस्य स्वतस्त्वं अर्थवलादेव सिद्धमित्यर्थः ॥
प्रमाणेतरयोः--प्रामाण्याप्रामाण्ययोः विशेषः इत्यम्बयः । उत्तमुप
'कुत-क.
तत-ख.
त्रयस्यानु-ख.