________________
श्री परमात्मा-द्वात्रिंशिकास्तोत्र
८७
लंकदोषैर, यो ध्वान्तसंधैरिव तिग्मरश्मिः । निरंजनं नित्यमनेकमेकं, तं देवमाप्तं शरणं प्रपद्य ॥१८|| विभासते यत्र मरीचिमालि-न्यविद्यमाने भुवनावमासि । स्वात्मस्थितं बोधमय-प्रकाशं, तं देवमाप्तं शरणं प्रपद्य ||१९|| विलोक्यमाने सति यत्र विश्वं, विलोक्यते स्पष्टमिदं विविक्तम् । शुद्धं शिवं शान्तमनाद्यनन्तं, तं देवमाप्त शरणं प्रपद्य |२०|| येन क्षता मन्मथ-मान-मूर्छाविषाद-निद्रा-भय-शोक-चिन्ताः । क्षय्योऽनलनेव तरुप्रपंचस, तं देवमाप्त शरणं प्रपद्ये ॥२१।। न संस्तरोऽश्मा न तृणं न मेदिनी, विधानतो नो फलको विनिर्मितः । यतो निरस्ताक्ष-कषायविद्विषः, सुधीमिरात्मैव सुनिर्मलो मतः ॥२२॥ न संस्तरो भद्र ! समाधि-साधनं, न लोकपूजा न च संघमेलनम् यतस्ततोऽध्यात्मरतो भवानिशं, विमुच्य सर्वामपि बाह्यवासनाम् ||२३|| न सन्ति बाह्या मम केचनार्था, भवामि तेषां न कदाचनाऽहम् । इत्थं विनिश्चित्य विमुच्य बाह्य, स्वस्थः सदात्वं भव भद्र ! मुक्त्यै ॥२४|| आत्मानमात्मन्यवलोक्यमानस्त्वं दर्शनज्ञानमयो विशुद्धः, एकाग्रचित्तः खलु यत्र तत्र। स्थितोऽपि साधुर्लमते समाधिम् 1|२५|| एकः सदा शाश्वतिको ममात्मा, विनिमलः साधिगमस्वभावः । बहिर्मवाः सन्त्यपरे समस्ता, न शाश्वताः कम भवाः स्वकीयाः ॥२६॥ यस्यास्ति नैक्यं वपुषाऽपि साधं, तस्यास्ति किं पुत्र-कलत्र-मित्रैः ? पृथककृते चर्म णि