________________
८८.
स्तोत्र-रास-संहिता
रोमकूपाः, कुतो हि तिष्ठन्ति शरीर-मध्ये ॥२७|| संयोगतो दुःखमने कभेदं, यतोऽश्नुते जन्मवने शरीरी । ततस्त्रिधाऽसौ परिवर्जनीयो, थियासुना निर्वृतिमात्मनीनाम ॥२८॥ सर्वं निराकृत्य विकल्पजालं, संसार-कान्तार-निपातहेतुम् । विविक्तमात्मानमवेक्ष्यमाणो, निलीयसे त्वं परमात्मतत्त्वे . |२९|| स्वयं कृतं कर्म यदात्मना पुरा, फलं तदीयं लमते शुभाशुभम् । परेण दत्तं यदि लभ्यते स्फुटं, . स्वयं कृतं कर्म निरर्थकं तदा ||३०|| निजार्जितं कम : विहाय देहिनो, न काऽपि कस्याऽपि ददाति किंचन । विचारयन्नेवमनन्यमानसः, परा ददातीति विमुंच शेमुषीम् ||३१|| यः परमात्माऽमितगतिवन्द्यः, सर्व विविक्तो भृशमनवद्यः । शश्वदधीतो मनसि लभन्त,, मुक्तिनिकेतं विभववरं ते ॥३२॥
श्री ऋषभदेव-स्तोत्र आदिजिनं वंदे गुणसदनं, सदनन्तामल-बोधं रे। बोधकता-गुणविस्तृतकीति, कीर्तित-पथमविरोधं रे-आदि० ||१|| रोधरहित-विस्फुरदुपयोगं, योगं दधतममंगं रे ! भंग नय-व्रज-पेशलवाचं, वाचंयम-सुख-संगं रे-आदि० ॥२॥ संगतपद-शुचिवचनतरंगं, रंगं जगति ददानं रे। , दानसुरद्र म-मंजुलहृदयं, हृदयंगम-गुण-मानं रे-आदि० ॥३|| मानन्दित - सुर-नर - पुन्नागं, नागर-मानस-हंसं रे ।