SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ स्तोत्र-रास-संहिता प्रमादतः प्रतिक्रम तस्य करोमि शुद्धये ||८|| क्षतिं मनःशुद्धि विधेरतिक्रमां, व्यतक्रिमं शीलवृतेविलंघनम । प्रभोऽतिचारं विषयेषु वर्तनं, वदन्त्यनाचारमिहातिसक्तताम् ॥९|| यदर्थमात्रा-पद-वाक्यहीनं, मया प्रमादाद् यदि किंचनोक्तम । तन्मे क्षमित्वा विदधातु देवी, सरस्वती केवल- . बोधलब्धिम् ॥१०॥ बोधिः समाधिः परिणामशुद्धिः, स्वात्मोपलब्धिः शिवसौख्यसिद्धिः । चिन्तामणि चिन्तितवस्तुदाने । त्वां वन्द्यमानस्य ममास्तु देवि ! ||११|| यः स्मर्यते सर्व-मुनीन्द्र-वृन्दैर, यः स्तूयते सर्वनरामरेन्द्रः । यो गीयते वेद-पुराणशास्त्रैः, स देवदेवो हृदये ममाऽस्ताम् ||१२|| यो दर्शन-ज्ञान-सुखस्वभावः, समस्त संसार-विकारबाह्यः । समाधिगम्यः परमात्म-संज्ञः, स देवदेवो. हृदये ममास्ताम् ॥१३|| निषूदते यो भवदुःखजालं, निरीक्षते यो जगदन्तरालम् । योऽन्तर्गतो योगि-निरीक्षणीयः, स देवदेवो हृदये ममास्ताम् ॥१४|| विमुक्तमार्ग-प्रतिपादको यो, यो जन्ममृत्युन्सनाद् व्यतीतः । त्रिलोकलोकी सकलो - कलंकः, स देवदेवो हृदये ममास्ताम् ||१५|| क्रोडीकृताशेषशरीरिवर्गा, रागादयो यस्य न सन्ति दोषाः। निरीन्द्रियो ज्ञानमयोऽनपायः, स देवदेवो हृदये ममास्ताम ||१६|| यो व्यापको विश्वजनीन-वृत्तिः, सिद्धो विबुद्धो धुतकमबन्धः। स्यातो धुनीते सकलं विकारं, स देवदेवो हृदये ममास्ताम ||१७|| न स्पृश्यते कर्मक
SR No.002264
Book TitleStotra Ras Samhita
Original Sutra AuthorN/A
AuthorLalitprabhsagar, Chandraprabhsagar, Bhanvarlal Nahta
PublisherSiddhiraj Jain
Publication Year1986
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy