________________
श्री परमात्म-द्वात्रिंशिका शीघ्र परमात्मतत्त्वं, व्रजन्ति मोक्षं क्षणमेकमध्ये ॥२५||
श्रीपरमात्म द्वात्रिंशिका-स्तोत्र सत्त्वेषु मैत्री गुणिषु प्रमोदं, क्लिष्टेषु जीवेषु कृपापरत्वम् । माध्यस्थ्यभावं विपरीत-वृत्तौ, सदा ममात्मा विदधातु देव ! ||१|| शरीरतः कर्तुमनन्तशक्ति, विभिन्नमात्मानमपास्तदोषम् । जिनेन्द्र ! कोषादिव खड्गयष्टि, तव प्रसादेन ममाऽस्तु शक्तिः ॥२|| दुःखे सुखे वैरिणि बन्धुवर्गे, योगे वियोगे भवने वने वा । निराकृताशेषममत्वबुद्धेः, समं मनो मेऽस्तु सदाऽपि नाथ ॥३|| मुनीश ! लोनाविव कीलिताविवः स्थिरौ निखाताविव विम्बिताविव । पादो त्वदीयौ' मम तिष्ठतां सदा, तमो धुनानौ हृदि दीपकाविव ||४|| एकेन्द्रियाद्या यदि देव ! देहिनः, प्रमादतः संचरता यतस्ततः । क्षता विभिन्ना मलिता निपीडिता, ममाऽस्तु मिथ्या दुरनुष्ठितं तद् ॥|| विमुक्तिमार्गप्रतिकूल-वर्तिना, मया कषायाक्षवशेन दुधिया । चारित्रशुद्धर्यदकारि लोपनं, तदस्तु मिथ्या मम दुष्कृतं विभो ! |६|| विनिन्दनालोचन-गहणैरह, मनोवचःकाय-कषायनिमितम् । निहन्मि पापं भवदुःखकारणं, भिषग् विषं मंत्रगुणैरिवाखिलम् ||७|| अतिक्रमं यं यमपि व्यतिक्रम, जिनातिचारं स्वचरित्र-कमणः । व्यधामनाचारमपि