SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ स्तोत्र-रास-संहिता विलापतुल्यम् ॥१८|| चक्र मयाऽसत्स्वपि कामधेनुकल्पद्रुम-चिन्तामणिषु स्पृहार्तिः। न जैनधर्मे स्फुटशमंदेऽपि, जिनेश ! मे पश्य विमूढभावम् ॥१९|| सद्मोगलीला न च रोगकीला, धनागमो नो निधनागमश्च। दारा न कारा नरकस्य चित्ते, व्यचिन्ति नित्यं मयकाऽधमेन ||२०|| स्थितं न साधोर् हृदि साधुवृत्तात् परोपकारान्न यशोऽजितं च। कृतं न तीर्थोद्धरणादि कृत्यं, मया मुधा हारितमेव जन्म ||२१|| वैराग्यरंगो न गुरूदितेषु, न दुर्जनानां वचनेषु शान्तिः । नाऽध्यात्मलेशो मम कोऽपि देव, तार्यः कथंकारमयं भवाब्धिः ? ||२२|| पूर्वे मवेऽकारि मया न पुण्य-मागामि-जन्मन्यपि नो करिष्ये । यदीदृशोऽहं मम तेन नष्टा, भूतोद्भवद्भाविभव-त्रयीश ! ||२३|| किं वा मुधाऽहं बहुधा सुधामुक्-पूज्य ! त्वदने चरितं स्वकीयम् ? जल्पामि यस्मात् त्रिजगत्स्वरूप-निरूपकस्त्वं कियदेतदत्र ? ॥२४॥ दीनोद्धारधुरंधरस्त्वदपरो, नास्ते मदन्यः कृपा-पात्रं नाऽत्र जने जिनेश्वर ! तथाऽप्येतां न याचे श्रियम् । किंत्वहन्निदमेव केवलमहो, सद्बोधि-रत्नं शिवं, श्रीरत्नाकरमंगलैकनिलय ! श्रेयस्करं प्रार्थये ||२५||
SR No.002264
Book TitleStotra Ras Samhita
Original Sutra AuthorN/A
AuthorLalitprabhsagar, Chandraprabhsagar, Bhanvarlal Nahta
PublisherSiddhiraj Jain
Publication Year1986
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy