SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ श्री परमानन्द - पंचविंशतिका-स्तोत्र श्री परमानन्द - पंचविंशतिका-स्तोत्र ८३ परमानन्द संयुक्तं, निर्विकारं निरामयम् । ध्यानहीना न पश्यन्ति निजदेहे व्यवस्थितम् ॥ १॥ अनन्तसुख-सम्पन्न', ज्ञानामृत पयोधरम् । अनन्तवीर्य सम्पन्नं दर्शनं परमात्मनः ||२|| निर्विकारं निराधारं सर्वसंगविवर्जितम् । परमानन्द-संपन्नं शुद्धचैतन्य-लक्षणम् ॥३॥ उत्तमाऽध्यात्मचिन्ता च, मोहचिन्ता च मध्यमा । अधमा कामचिन्ता च, परंचिन्ताऽधमाधमा ||४|| निर्विकल्पसमुत्पन्नं, ज्ञानमेव सुधारसम् । विवेकमंजलि कृत्वा, तं पिबन्ति तपस्विनः ||५|| सदानंदमयंजीवं, यो जानाति स पण्डितः । स सेवतें निजात्मानं, परमानन्द - कारणम् ||६|| नलिन्यां च यथा नीरं, 'भिन्नं तिष्ठति सर्वदा । अयमात्मा स्वभावेन, देहे तिष्ठति सर्वदा ॥७॥ द्रव्यकर्म विनिर्मुक्तं, भावकर्म-विवर्जितम् । नोकर्म-रहितं विद्धि, निश्चयेन चिदात्मनम् ||८|| अनन्तब्रह्मणो रूपं निजदेहे व्यवस्थितम् । ध्यानहीना न पश्यन्ति, जात्यन्धा इव भास्करम् ||९|| तद्ध्यानं क्रियते भव्येर्, येन कर्म विलीयते । तत्क्षणं दृश्यते शुद्धं, चिच् चमत्कारलक्षणम् ॥१०॥ चिदानंदमयं शुद्धं, निराकार निरामयम् । अनंत सुखसम्पन्नं, सर्व संगविवर्जितम् ||११|| लोकमात्रप्रमाणो हि निश्चये न हि संशयः । व्यवहारे देहमात्रं, कथयन्ति मुनीश्वराः ||१२||
SR No.002264
Book TitleStotra Ras Samhita
Original Sutra AuthorN/A
AuthorLalitprabhsagar, Chandraprabhsagar, Bhanvarlal Nahta
PublisherSiddhiraj Jain
Publication Year1986
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy