________________
श्री रत्नाकरपंचविंशतिकास्तोत्र
ध्ययनं च मेऽभूत्, कियद् ब्रुवे हास्यकरं स्वमीश ! ॥९॥ परापवादेन मुखं सदोषं, नेत्रं परस्त्रीजन-वीक्षणेन । चेतः परापाय-विचिन्तनेन, कृतं भविष्यामि कथं विमोऽहम ? ||१०|| विडम्बितं यत् स्मर-घस्मराति-दशावशात् स्व विषयान्धलेन । प्रकाशितं तद भवतो हियैव, सर्वज्ञ ! सर्व स्वयमेव वेत्सि ॥११॥ ध्वस्तोऽन्य-मंत्रैः परमेष्ठिमंत्रः, कुशास्त्रवाक्यैर् निहतागमोक्तिः । कतु वृथा कर्म कुदेवसंगा-दवाञ्छि ही नाथ ! मतिभ्रमो मे ||१२|| विमुच्य दृगलक्ष्यगतं.भवन्तं,ध्याता मया मूढधिया हृदन्तः। कटाक्षवक्षोज-गमीर-नाभि-कटीतटीयाः सुदृशां विलासाः ॥१३॥ लोलेक्षणावक्त्र-निरीक्षणेन, यो मानसे रागलवो विलग्नः। न शुद्धसिद्धान्त-पयोधि-मध्ये, धौतोऽप्यगात् तारक ! कारणं किम् ||१४|| अंगं न चंगं न गणो गुणानां, न निर्मलः कोऽपि कला-विलासः । स्फुरत्प्रमा न प्रभुता च काऽपि, तथाऽप्यहंकार-कथितोऽहम् ॥१|| आयुर्गलत्याशु न पापबुद्धिर्, गतं वयो नो विषयाभिलाषः । यत्नश्च भैषज्य-विधौ न धर्मे, स्वामिन् ! महामोहविडम्बना मे ||१६|| नात्मा न पुण्यं न भवो न पापं, मया विटानां कटुगीरपीयम् । नाधारि कर्णे त्वयि केवलार्के, परिस्फुटे सत्यपि देव ! धिङ् माम् ॥१७॥ न देवपूजा न च पात्रपूजा, न श्राद्धधर्मश्च न साधुधर्मः | लब्ध्वाऽपि मानुष्यमिदं समस्तं, कृतं मयाऽरण्य