________________
स्तोत्र-रास-संहिता
श्रीरत्नाकर-पंचविंशतिका-स्तोत्र
श्रेयः श्रियां मंगल-केलिसद्म, नरेन्द्र-देवेन्द्र-नताङ् घ्रिपदा ! सर्वज्ञ ! सर्वातिशय ! प्रधान, चिरंजय ज्ञानकला-निधान ! ||१|| जगत्त्रयाधार ! कृपावतार, दुर्वारसंसार-विकार-वैद्य ! श्रीवीतराग ! त्वयि मुग्धभावाद् विज्ञ ! प्रभो ! विज्ञपयामि किंचित् ।।२।। किं बाललीलाकलितो न बालः, पित्रोः पुरो जल्पति निर्विकल्पः ? तथा यथार्थं कथयामि नाथ, निजाशयं सानुशयस्तवाने ||३|| दत्त न दानं, परिशीलितं च न शालि शीलं, न तपोऽमितप्तम् । शुमो न भावोऽप्यमवद भवेऽस्मिन् विभो ! मया भ्रान्तमहो ! मुधैव ॥४॥ दग्धोऽग्निना क्रोधमयेनदष्टो, दुष्टेन लोमाख्य-महोरगेण । प्रस्तोऽभिमानाजगरेण माया-जालेन बद्धोऽस्मि कथं भजे त्वाम् ? | कृतं मयाऽमुत्र हितं न चेह, लोकेऽपि लोकेश ! सुखं न मेऽभूत् । अस्मादृशां केवलमेव जन्म, जिनेश ! जज्ञ भव-पूरणाय |६|| मन्ये मनो यन्न मनोज्ञवृत्त ! त्वदास्यपीयूष-मयूखलामात् । द्रुतं महानन्दरसं कठोरमस्मादृशां देव ! तदश्मतोऽपि ||७|| त्वत्तः सुदुष्प्राप्यमिदं मयाप्तं । रत्नत्रयं भूरि-भव-भ्रमेण । प्रमाद-निद्राक्शतो गतं तत्, कस्याग्रतो नायक ! पूत्करोमि ? ||८|| वैराग्यरंगः पर-वञ्चनाय, धर्मोपदेशो जन-रञ्जनाय । वादाय विद्या