________________
७२
स्तोत्र-रास-संहिता
धूलीबहुलपरिमलालीढलोलालिमालाझंकारारावसारामलदलकमलागारभूमिनिवासे! छायासंभारसारे ! वरकमलकरे ! तारहाराभिरामे ! वाणीसंदोहदेहे ! भवविरहवर देहिमे देवि ! सारम् ||७|| बुद्धस्त्वमेव विबुधाचित-बुद्धिबोधात्, त्वं शंकरोऽसि भुवनत्रय-शंकरत्वात् । धाताऽसि धीर ! शिवमार्ग-विधेविधानात् व्यक्त त्वमेव भगवन् ! पुरुषोत्तमोऽसि ||८|| तुभ्यं नमस्त्रिभुवनातिहराय नाथ ! तुभ्यं नमः क्षितितलामल-भूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय, तुभ्यं नमो जिन ! मवोदधि-शोषणाय ||९|| त्वं नाथ ! दुःखिजनवत्सल ! हे शरण्य ! कारुण्य-पुण्य-. वसते ! वशिनां वररेण्य ! भक्त्या नते मयि महेश ! दयां विधाय, दुःखांकुरोद्दलन-तत्परतां विधेहि ॥१०॥ देवेन्द्रवन्द्य ! विदिताखिलवस्तु-सार ! संसारतारक ! विभो ! भुवनाधिनाथ ! त्रायस्व देव ! करुणाहृद.! मां पुनीहि, सीदन्तमद्य मयदः व्यसनाम्बु-राशेः ||११|| तज्जयति परं ज्योतिः, समं समस्तैरनन्त-पर्यायैः । दर्पणतलं इव सकला, प्रतिफलति पदार्थ-मालिका यत्र ||१२|| मोक्षमार्गस्य नेतारं, भेत्तारं कर्म-भूभृताम् । ज्ञातारं विश्वतत्त्वानां, वन्दे तद्-गुण-लब्धये ||१३|| दिक्-कालाद्यनवच्छिन्नाऽनन्त-चिन्मात्र-मूर्तये । स्वानुभूत्येक-मानाय, नमः शान्ताय तेजसे ॥१४|| अपवित्रः पवित्रो वा, सुस्थितो. दुःस्थितोऽपि वा । यः स्मरेत्परमात्मानं, स बाह्याभ्यन्तरे