________________
मंगल-स्तोत्र
शुचिः ||१५|| नमः समय-साराय, स्वानुभूत्य चकासते । चत्स्वभावाय भावाय, सर्वभावान्तर-च्छिदे ॥१६|| अनन्त - धर्मणस्तत्त्वं, पश्यन्ती प्रत्यगात्मनः । अनेकान्तमयी मूर्तिर्, नित्यमेव प्रकाशताम् ॥१७॥ एकेनाकर्षन्ती श्लथयन्ती वस्तुतत्वमितरेण अन्तेन जयति जैनी, नीतिर्मन्थाननेत्रमिव गोपी ॥१८॥ नमः श्रीवर्द्धमानाय, निर्द्ध त-लिकलात्मने । सालोकानां त्रिलोकानां यद्विद्या दर्पणायते ।१९। यत्र तंत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया ! वीतदोषकलुषः स चेद् भवाम् एक एव भगवन्नमोऽस्तु ते ॥२०॥ भवबीजांकुर जनना, रागानाः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा, हरो जिनो वा नमस्तस्मै ॥२१॥ तव पादौ मम हृदये, महृदयं तवपदद्वये लीनम् । तिष्ठतु जिनेन्द्र ! तावद्, सावन् निर्वाण-सम्प्राप्तिः ॥२२॥ ब्राही चंदन-बालिका भगवती, राजीमती द्रौपदी । कौशल्या च मृगावती च सुलसा, सीता सुभद्रा शिवा । कुन्ती शीलवती नलस्य ददिता, चूला-प्रभावत्यपि । पद्मावत्यपि सुन्दरी दिनमुखे, कुर्वन्तु नो मंगलम् ॥२३|| शास्त्राभ्यासो जिनपतिनुतिः, संगतिः सर्वदाऽऽयः । सत्साधूनां गुण-गण-कथा, दोष-वादे च मौनम् । सर्वस्यापि प्रियहितवचो, भावना चात्मतत्त्वे । सम्पद्यन्तां मम भव-भवे, यावदेतेऽपवर्गः ॥२४॥ शवमस्तु सर्वजगतः, परहित-निरता भवन्तु भूतगणाः ।