________________
मंगल-स्तोत्र
७१
मंगल-स्तोत्र अर्हन्तो भगवन्त इन्द्र-महिताः सिद्धाश्च सिद्धिस्थिताः । आचार्या जिनशासनोन्नतिकराः, पूज्या उपाध्यायकाः । श्रीसिद्धान्त-सुपाठका मुनिवरा, रत्नत्रयाराधकाः । पञ्चैते परमेष्ठिनः प्रतिदिनं, कुर्वन्तु नो मङ्गलम् ||१|| अर्हन्तो ज्ञान-भाजः सुरवर-महिताः, सिद्धिसौधस्थ-सिद्धाः । पंचाचारप्रवीणाः प्रगुणगणधराः, पाठकाश्चागमानाम् । लोके लोकेश-वन्द्याः सकल-यतिवराः साधु-धर्मामिलीनाः । पंचाऽप्येते सदाऽप्ता विदधतु कुशलं, विघ्न-नाशं विधाय ||२|| वीरः सर्वसुरासुरेन्द्रमहितो, वीरं बुधाः संश्रिताः । वीरेणामिहतः स्वकर्मनिचयो, वीराय नित्यं नमः | वीरात् तीर्थमिदं प्रवृत्तमतुलं, वीरस्य धोरं तपो। वीरे श्री-धृतिकीर्ति-कान्तिनिचय, हे वीर ! भद्र दिश ||३|| संसार-दावानल-दाहनीरं, सम्मोह-धूलीहरणे समीरम् । मायारसादारण-सारसीरं, नमामि वीरं गिरिसार-धीरम् ||४|| भावावनामसुर-दानव-मानवेन-चूला-विलोल - कमलावलि-मालितानि, सम्पूरिताभिनत-लोक-समीहितानि, कामं नमामि जिनराज-पदानि तानि ||५|| बोधागाधं सुपदपदवीनीरपूराभिरामं, जीवाहिंसाऽविरललहरीसंगमा-गाहदेहं । चूलावेलं गुरुगम-मणीसंकुलं दूरपारं, सारं वीरागमजलनिधि सादरं साधु सेवे ||६|| आमूलालोल