________________
१
.
स्तोत्र-रास-संहिता
ग्रहशान्ति-स्तोत्र
जगद्गुरु नमस्कृत्य, श्रुत्वा सद्गुरुमाषितम्। ग्रहशान्ति प्रवक्ष्यामि, लोकानां सुखहेतवे ||१|| जिनेन्द्राः खेचरा ज्ञयाः, पूजनीया विधिक्रमात् । पुष्पैविलेपनेधूपैर्ने वेद्यस्तुष्टिहेतवे ॥२॥ पद्मप्रमस्य मार्तडश्चंद्रश्चंद्रप्रभस्य च । वासुपूज्यो भूमिपुत्रो, बुधोप्यष्टजिनेश्वराः ॥३|| विमलानन्तधर्माराः शान्तिकुन्थुन मिस्तथा । वर्द्धमानो जिनेन्द्राणां पादपद्मे बुधं न्यसेत् ||४|| ऋषभाजितसुपाश्र्वाश्चाभिनंदनशीतलो । सुमतिः संभवः स्वामी, श्रेयांसश्च बृहस्पतिः ।।३।। सुविधेः कथितः शुक्रः, सुव्रतस्य शनैश्चरः । नेमिनाथो मवेद्राहुः, केतुः श्रीमल्लिपाश्र्वयोः । जन्मलग्ने च राशौ च, यदा पीड्यन्ति खेचराः । तदा संपूजयेद्धीमान् खेचरैः सहितान् जिनान् ७il पुष्पगंधादिमियूं पैनैवेद्य फलसंयुतैः । वर्णसदृशदानैश्च, वासोमिदक्षिणान्वितैः ॥८॥ ॐ आदित्यसोममंगलबुधगुरुशुक्रशनश्चरोराहुः । केतुप्रमुखाः खेटा, जिनपतिपुरतोऽवतिष्ठन्तु |९|| जिननामकृतोच्चारा देशनक्षत्रवर्णकः । स्तुताश्च पूजिता भक्त्या, ग्रहाः संतु सुखावहाः ||१०|| जिनानामग्रतः स्थित्वा, ग्रहाणां तुष्टिहेतवे । नमस्कारशतं भक्त्या जपेदष्टोत्तरंशतम्॥११|| भद्रबाहुरुवाचेदं पंचमः श्रुतकेवली विद्याप्रवादतः पूर्वाद् ग्रहशान्तिर्विनिर्मितः ॥१२॥