________________
पंचषष्ठियंत्रगर्मित श्रीचतुर्विंशतिजिन-स्तोत्र
पंचषष्ठियंत्रगर्भित श्रीचतुर्विंशतिजिनस्तोत्र
आदौ नेमिजिनं नौमि संभवं सुविधि तथा । धर्मनाथं
"
महादेवं शान्तिः शान्तिकरं सदा ॥१॥ अनंतं सुव्रतं भक्त्या, नमिनाथं जिनोत्तमं । अजितं जितकंदर्प, चन्द्र चन्द्रसमप्रभम् ||२|| आदिनाथं तथा देवं, सुपार्श्वविमलं जिनं । मल्लिनाथं गुणोपेतं धनुषां, पंचविंशतिम् ||३|| अरनाथं महावीरं, सुमति च जगद्गुरु श्रीपद्मप्रभनामानं, वासुपूज्यं सुरैर्नतम् ||४|| शीतलं शीतलं लोके, श्रेयांसं श्रेयसे सदा । कुन्थुनाथं च वामेयं विश्वाभिनन्दनं विभुम् ॥५॥ जिनानां नामभिर्बद्धः पंचषष्ठिसमुद्भवः । यन्त्रोयं राजते यत्र तत्र सौख्यं निरन्तरम् ||६|| यस्मिन्गृहे महाभक्तंचा, यन्त्रोयं पूज्यते बुधैः । भूतप्रेतपिशाचादि भयं तत्र न विद्यते ॥७॥ सकलगुणनिधानं यंत्रमेतद्विशुद्ध हृदयकमलकोशे धीमतां ध्येयरूपम् । जयतिलकगुरोः श्रीसूरिराजस्य शिष्यो वदति सुखनिधानं मोक्षलक्ष्मीनिवासः ||८||
>
६९
"